________________
त्रिषष्टिशलाकापुरुषचरिते
1199211
तिसृभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः । सावद्ययोगहानेन विरतिं चापि साधयेत् ।। ९६ ॥ सद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः । विजयेतार्त्तरौद्रे च संवरार्थं कृतोद्यमः ।। ९७ ।। यथा चतुष्पथस्थस्य बहुद्वारस्य वेश्मनः । अनावृतेषु द्वारेषु रजः प्रविशति ध्रुवम् ॥ ९८ ॥ प्रविष्टं स्नेहयोगाच्च तन्मयत्वेन बध्यते । न विशेन्न च बध्येत द्वारेषु स्थगितेषु च ।। ९९ ।। यथा वा सरसि क्वापि सर्वैद्वारैर्विशेज्जलम् । तेषु तु प्रतिरुद्धेषु प्रविशेन्न मनागपि ।। १०० । यथा वा यानपात्रस्य मध्ये रन्धैर्विशेज्जलम् । कृते रन्ध्रपिधाने तु न स्तोकमपि तद्विशेत् ॥ १०१ ॥ योगादिष्वाश्रवद्वारेष्वेवं रुद्धेषु सर्वतः । कर्मद्रव्यप्रवेशो न जीवे संवरशालिनि ॥ १०२ ॥ संवरादाश्रवद्वारनिरोधः संवरः पुनः । क्षान्त्यादिभेदाद् बहुधा तथैव प्रतिपादितः ।। १०३ ॥ गुणस्थानेषु यो यः स्यात् संवरः स स उच्यते । मिथ्यात्वानुदयात्परस्थेषु मिथ्वात्वसंवरः ॥ १०४ ॥ तथा देशविरत्यादौ स्यादविरतिसंवरः । अप्रमत्तसंयतादौ प्रमादसंवरो मतः ।। १०५ ।। प्रशान्तक्षीणमोहादौ भवेत् कषायसंवरः । अयोग्याख्यकेवलिनि सम्पूर्णो योगसंवर ।। १०६ ।। संवृतः संवरेणैवं भवस्यान्तं व्रजेत्सुधीः । निश्छिद्रयानपात्रेण सांयात्रिक इवाम्बुधेः ।। १०७ ।। प्रभोस्तया देशनया प्रबुद्धा बहवो जनाः । प्रव्रज्यां जगृहुः केऽपि केऽपि श्रावकतां पुनः ।। १०८ ।। आनन्दाद्या एकाशीतिः प्रभोर्गणभृतोऽभवन् । देशनान्ते प्रभोश्चक्रेऽथानन्दो धर्मदेशनाम् ।। १०९ ।। आनन्ददेशनान्ते च नमस्कृत्य जगद्गुरुम् । स्थानं निजनिजं जग्मुः सुराऽसुरनरेश्वराः ।। ११० ॥ १ रागयोगात् । २ पिहितेषु । ३ संवरेण शालते शोभते तस्मिन् ।
तृतीयं पर्व
अष्टमः
सर्गः
श्रीशितल
जिनचरितम् ।
देशना ।
।। ११८ ।।