________________
त्रिषष्टिशलाका
पुरुषचरिते
तृतीयं पर्व अष्टमः सर्गः श्रीशितलजिनचरितम् ।
||११७॥
भास्करेणेव गगनं हंसेनेव महासरः । पार्थिवेनेव नगरं शोभते भारतं त्वया ।। ८२ ।। आलोकस्तिमिरेणेव सूर्यास्तेन्दूदयान्तरे । मिथ्यात्वेन पराभूतो धर्मस्तीर्थद्वयान्तरे ।। ८३।। जगदन्धमिदं जज्ञे निर्विवेकविलोचनम् । अपथेषु प्रववृते दिङ्मूढमिव सर्वतः ।। ८४ ।। अधर्मो धर्मबुध्या चादेवता देवताधिया । गुरुबुध्या चागुरवो भ्रान्तैर्जगृहिरे जनैः ।। ८५ ।। नरकावटपाताय जगत्यस्मिन्नुपस्थिते । निसर्गकरुणाम्भोधिस्तत्पुण्यैस्त्वमवातरः ।। ८६ ।। मिथ्यात्वाशीविषो लोके प्रभविष्णुरसौ चिरम् । तावदेव न यावत् ते प्रसरेद्वचनामृतम् ।। ८७॥ तन्मिथ्यात्वापसारेण सम्यक्त्वं जगतोऽधुना । भावि प्रभो ! केवलं ते घातिकर्मक्षयादिव ।। ८८ ॥ इत्यं स्तुत्वा स्थिते शक्रे भगवान् शीतलप्रभुः । गिरा सुधामधुरया विदधे देशनामिति ।। ८९ ।। संसारे क्षणिकं सर्व नानादुःखनिबन्धनम् । मोक्षाय यतितव्यं तद्भवेन्मोक्षस्तु संवरात् ।। ९० ॥ सर्वेषामाश्रवाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा द्रव्यभावविभेदतः ।। ९१ ॥ यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥ ९२ ।। येन येन ह्युपायेन रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ॥ ९३ ॥ क्षमया मृदुभावेन ऋजुत्वेनाप्यनीहया । क्रोधं मानं तथा मायां लोभं रुन्ध्याद्यथाक्रमम् ।। ९४ ।। असंयमकृतोत्सेकान् विषयान् विषसन्निभान् । निराकुर्यादखण्डेन संयमेन महामतिः ।। ९५ ॥ १ सूर्यास्तादनंतरं चंद्रोदयात्पूर्वे च । २ विवेक एव विलोचनं नेत्रं तेन रहितम् ।३ नरकगर्तायां पतनाय । ४ आशीविषः सर्पः। ५ अनिच्छ्या लोभमित्यनुक्रमेण । ६ असंयमेन कृत उत्सेको गर्वो यैस्तान् ।
देशना।
॥११७ ॥