________________
त्रिषष्टिशलाका
पुरुषचरिते ।।११६ ।।
समं नृपसहस्रेण कृतषष्ठतपाः प्रभुः । सावद्ययोगविरतिप्रेतिज्ञां प्रत्यपद्यत ॥ ६८ ॥
॥ त्रिभिर्विशेषकम् ॥ तुर्यं ज्ञानं प्रभोर्जज्ञे मनःपर्ययसञ्ज्ञकम् । कृत्वा प्रणामं च ययुः स्वं स्वं स्थानं सुरादयः ।। ६९ ।। द्वितीयेऽह्नि रिष्टपुरे पुनर्वसुनृपौकसि । पारणं परमान्नेन विदधे शीतलप्रभुः ।। ७० ।। चक्रे च वसुधारादिपञ्चकं विबुधैस्ततः । स्वर्णपीठं पुनस्तत्र पुनर्वसुनृपो व्यधात् ॥ ७१ ॥ विविधाभिग्रहधरः सहमानः परीषहान् । छद्मस्थतया त्रीन् मासान् व्यहार्षीच्छीतलप्रभुः ।। ७२ ।। सहस्राम्रवणं भूयोऽप्याजगाम जगद्गुरुः । तत्र प्रतिमया तस्थावधस्तात्प्लक्षशाखिनः ।। ७३ ।। भेट वप्रमवारुह्य शुक्लध्यानं द्वितीयकम् । जघान घातिकर्माणि रिपूनिव जगद्गुरुः ॥ ७४ ॥ पौषकृष्णचतुर्दश्यां पूर्वाषाढागते विधौ । केवज्ञानमुत्पेदे शीतलस्वामिनस्ततः ।। ७५ ।। वप्रैस्त्रिभिश्चतुर्द्वारैरात्नसौवर्णराजतैः । ततः समवसरणं चक्रुर्देवाऽसुरेश्वराः ॥ ७६ ॥ तत्र प्रविश्य प्राग्द्वारा प्रदक्षिण्यकरोत्प्रभुः । चैत्यवृक्षमशीत्यग्रदशधन्वशतोन्नतम् ॥ ७७ ॥ " नमस्तीर्थाये” ति वदन् पूर्वसिंहासने प्रभुः । न्यषदद् दिक्षु चान्यासु तद्रूपाण्यमरा व्यधुः ॥ ७८ ॥ तत्र तस्थुर्यथास्थानमथान्येऽप्यमरादयः । स्वामिवाचं प्रतीच्छन्तः स्तनितं बर्हिणा इव ।। ७९ ॥ स्वामिनं शीतलमथ शिरः संस्पृष्टभूतलः । नमस्कृत्याञ्जलिंधर इति वज्रधरोऽस्तवीत् ॥ ८० ॥ त्वत्पादपञ्कजनखद्युतिजालजलाप्लवैः । स्नायं स्नायं पुनन्ति स्वं धन्यास्त्रिभुवनेश्वर ॥ ८१ ॥
१ प्रतिज्ञां प्रत्याख्यानम् । २ योधः । ३ रत्नसुवर्णरूप्यमयैः । ४ मेघगर्जितम् । ५ स्नात्वा स्नात्वा ।
* तैः । समवसरणं चक्रुर्देवास्ततः सुरा-ऽसुराः ।
तृतीयं पर्व
अष्टमः सर्गः
श्रीशितल
जिनचरितम् ।
केवल
ज्ञानम् ।
।। ११६ ।।