________________
त्रिषष्टि
शलाका
पुरुषचरिते 11994 11
अबुध्यन्तावधिज्ञानादेवं ते त्रिदिवौकसः । जम्बूद्वीपाभिधे द्वीपे भरतार्थे च दक्षिणे ।। ५५ ।। दशमो भगवानर्हन् व्रतेच्छुर्वर्तते ततः । तं वयं प्रेरयामोऽद्य सदाकृत्यमिदं हि नः ।। ५६ ।। ॥ युग्मम् ॥ विमृश्यैवं ब्रह्मलोकात्सुराः सारस्वतादयः । एत्य विज्ञापयामासुरिति स्वामिनमानताः ।। ५७ ।। अरण्यस्रोतसीवास्मिंस्तीर्थाभावेन दुस्तरे । संसारे विश्वकृपया तीर्थं नाथ ! प्रवर्तय ॥ ५८ ॥ इत्युदित्वा ययुर्ब्रह्मलोकं लौकान्तिकामराः । शीतलस्वाम्यपि ददौ दानं संवत्सरावधि ।। ५९ ।। अन्ते च तस्य दानस्य सुरेन्द्रैश्चलितासनैः । दीक्षाकल्याणकस्नात्रं विदधे शीतलप्रभोः ।। ६० ।। कृताङ्गरागो भगवानार्मुक्तांशुकभूषणः । त्रिजगद्भूषणं नाथो दत्तबाहुर्बिडौजसा ।। ६१ ॥ अन्यैरपि धृतच्छत्रचामरादिः सुरेश्वरैः । अध्यारुरोह शिबिकारत्नं चन्द्रप्रभाभिधम् ।। ६२ ।। ॥ युग्मम् ॥
सुरासुरसहस्राणां सहस्रैः परिवारितः । सहस्राम्रवणं नाम स्वपुरोपवनं ययौ ।। ६३ ।। ततस्तितीर्षुः संसार भारवद्भूषणादिकम् । उज्झाञ्चकार झगिति प्रभुः शिवगतिप्रियः ।। ६४ ।। शक्रन्यस्तं देवदूष्यांशुकमसंस्थले दधत् । पञ्चभिर्मुष्टिभिः केशानुच्चखान जगत्पतिः ।। ६५ ।। क्षीरोदे न्यस्य तान् केशान् शक्रे पुनरुपेयुषि । निषिद्धतुमुले बद्धाञ्जलौ द्वाःस्थ इव स्थिते ॥ ६६ ॥ सुरासुरनरेन्द्राणां प्रत्यक्षमपरेऽहनि । माघस्य कृष्णद्वादश्यां पूर्वाषाढास्थिते विधौ ।। ६७ ।।
१ पक्षे जलावताराभावेन । २ आमुक्तानि स्वीकृतानि अंशुकभूषणानि येन सः । ३ मोक्षगतिप्रियः । ४ स्कंधदेशे । छुर्यतते ।
तृतीयं पर्व
अष्टमः
सर्गः
श्रीशितल
जिनचरितम् ।
दीक्षा ।
।। ११५ ।।