________________
त्रिषष्टिशलाकापुरुषचरिते 11११४॥
तृतीयं पर्व अष्टमः
सर्गः श्रीशितल
जिनचरितम् ।
वसन्तसमयेनेव दर्शनेन तव प्रभो! । स्युरद्य नूतनश्रीकाः प्राणिनः पादपा इव ।। ४१ ।। त्वद्दर्शनपवित्राणि यानि तानि दिनानि मे । दिनानि शेषाणि पुनः कृष्णपक्षतमस्विनी ।। ४२ ।।। स्यूतानीवात्मना नित्यं कुकर्माणि शरीरिणाम् । त्वयाद्य विघटन्तां द्रागयस्कान्तेन लोहवत् ।। ४३ ।। अत्र वा दिवि वा तिष्ठस्तिष्ठन्नन्यत्र वा क्वचित् । त्वद्वाहनमहं भूयां त्वामेव हृदये वहन् ।। ४४ ॥ एवं दशममर्हन्तं स्तुत्वा देशशतेक्षणः । आदायानीय चामुञ्चन्नन्दापार्श्वे यथास्थिति ।। ४५ ।। चक्रे ६ढरथेनापि कारामोक्षादिनोत्सवः । जगतोऽपि हि मोक्षाय ताशां जन्म पावनम् ॥ ४६॥ राज्ञः सन्तप्तमप्यङ्गं नन्दास्पर्शन शीत्यभूतु । गर्भस्थेऽस्मिन्निति तस्य नाम शीतल इत्यभूत् ।। ४७ ॥ धुसत्कुमारकैर्वेलाधारीन्द्रैरिव सेवितः । ववृधेऽम्भोधिवेलावज्जगन्नाथो दिने दिने ।। ४८ ॥ शैशवं व्यत्यलङियष्ट क्रमेण परमेश्वरः । शैशवाद्यौवनं चाप ग्रामात्पुरमिवाध्वगः ।। ४९ ।। प्रभुर्नवतिधन्वोच्चो रराजाजानुबाहुकः । पार्श्वतो लम्बमानोरुवल्लीक इव पादपः ।। ५० ।। विषयेषु निरीहोऽपि पितृभ्यां प्रार्थितः प्रभुः । चकार पाणिग्रहणं पिण्डादानमिव द्विपः ।। ५१ ॥ अथ पूर्वसहस्राणां गतायां पञ्चविंशतौ । जग्राह पितृदाक्षिण्याद्राज्यं श्रीशीतलप्रभुः ।। ५२ ।। पञ्चाशत्पूर्वसहस्रीमपूर्वभुजविक्रमः । पूर्वक्रमागतं राज्यं शशास विधिवत्प्रभुः ।। ५३ ।। अथ संसारसंवासाद् व्यरज्यत प्रभोर्मनः । आसनानि प्रचेलुश्व लौकान्तिकदिवौकसाम् ।। ५४ ।। १ कृष्णपक्षरात्रिसदृशानि । २ प्रोतानि । ३ इंद्रः । ४ देवकुमारैः । ५ यथा वेलाधारी लवणसमुद्रः देवकुमारैः सेवितः ववृधे तद्वत् । ६ अपूर्वः भुजयोः विक्रमो यस्य सः ।७ विरक्तमभूत् ।
| जन्मादि।
।।११४ ।।