________________
त्रिषष्टिशलाकापुरुषचरिते ||११३॥
तृतीयं पर्व अष्टमः |सर्गः
श्रीशितल|जिनचरितम् ।
इतश्च प्राणते कल्पे पद्मोत्तरमहीपतेः । जीवः स्वायुरपूरिष्ट विंशतिसागरोपमान् ॥ २६ ॥ च्युत्वा राधकृष्णषष्ठ्यां पूर्वाषाढास्थिते विधौ । पद्मोत्तरनृपजीवो नन्दाकुक्षाववातरत् ।। २७ ॥ नन्दास्वामिन्यपि तदा सुखसुप्ता व्यलोकयत् । चतुर्दश महास्वप्नांस्तीर्थकृज्जन्मसूचकान् ।।२८ ।। माघस्य कृष्णद्वादश्यां पूर्वाषाढागते विधौ । श्रीवत्साझं स्वर्णवर्ण श्रीनन्दासूत नन्दनम् ॥ २९ ॥ अष्टाधोलोकवास्तव्या उर्ध्वलोकजुषोऽष्ट च। अष्टाष्टौ रुचकदिशां चतस्रो विदिशां पुनः ॥३०॥ रुपकद्वीपमध्यस्थाश्चतस्रश्चलितासनाः । षट्पंचाशद्दिकुमार्यः सूतिकर्मेत्य चक्रिरे ।।३१ ॥ शक्रोऽप्युपेत्य तत्राशु गृहीत्वा स्वामिनं स्वयम् । सुमेरुपर्वतविशरस्युपेयाय वृतोऽमरैः ॥ ३२ ॥ अतिपाण्डुकम्बलायां रत्नसिंहासनोपरि । अङ्काधिरोपितपतिर्दिवस्पतिरुपाविशत् ।। ३३ ॥ हृदिनीनाथ-हृदिनी-हृदादिभ्यः समाहृतैः । अभ्यषिञ्चन जलै थमथेन्द्रा अच्युतादयः ।।३४ ॥ ईशानाङ्के प्रभुं न्यस्य शक्रोप्यस्नपयत्ततः । विकृतस्फाटिकवृषविषाणाग्रोद्गतै लैः ॥ ३५ ॥ दिव्याङ्गरागैश्चर्चित्वार्चित्वा चाभरणादिभिः । जगत्पतिमिति स्तोतुं समारेभे दिवस्पतिः ।। ३६ ।। जयेक्ष्वाकुकुलक्षीररत्नाकरनिशाकर! । जगन्मोहमहानिद्राविद्रावणदिवाकर !।।३७ ॥ त्वामालोकयितुं त्वां च स्तोतुं त्वामर्चितुं तथा । आशंसाम्यात्मनोऽनन्ता दृशो जिला भुजा अपि ॥ ३८ ॥ स्वामिन् दशमतीर्थेश तव पादारविन्दयोः । न्यस्तान्यमूनि पुष्पाणि सम्पन्नं तु फलं मयि ॥३९ ॥ अमन्दं दददानन्दं दुःखतापार्दितात्मनाम् । मर्त्यलोकेऽवातरस्त्वं जीमूत इव नूतनः ।। ४० ॥ १ वैशाखकृष्णषष्ठ्याम् । २ इंद्रः ।३ हृदिनीनाथः समुद्रः हृदिनी नदी । ४ मेघ इव ।
| जन्मादि ।
PASRASIRAHARASH
॥११३ ॥