________________
त्रिषष्टि
शलाका
पुरुषचरितं
11993 11
परिखावलयेनोच्चैः प्राकारस्तत्र काञ्चनः । जम्बूद्वीपजगत्यब्धिवलयेनेव शोभते ॥ १२ ॥ सायमापणवीथीषु प्रदीप्ता दीपधोरणी । तत्र संलक्ष्यते स्वर्णकण्ठिकेव पुरश्रियः ॥ १३ ॥
या हत्या भुजङ्गवृन्दारकविलासभूः । भौगावत्यमरावत्योरिव सारेण तत्क्षणम् ।। १४ ।। तस्मिंश्च सत्रशालासु महेभ्यैर्भोजनार्थिनः । भोज्यन्ते विविधैर्भोज्यैरुत्सवे स्वजना इव ।। १५ ।। तस्मिन् दृढरथो नाम नामितारातिमण्डलः । अभूद्भूमण्डलं व्याप्य स्थितोऽब्धिरिव भूपतिः ॥ १६ ॥ स महर्षिगणेनापि वर्ण्यमानैर्निरन्तरम् । अधिकाधिकमव्रीड्यद् गुणैरप्यगुणैरिव ।। १७ ।। प्रत्यर्थिभ्यो बलादात्तामर्थिभ्यः स श्रियं ददौ । अदत्तादानदोषस्य प्रायश्चित्तमिवाचरन् ॥ १८ ॥ तस्याग्रतो भूपतयः कृतभूलुठना मुहुः । सर्वाङ्गालिङ्गित्तभुवो भूपतित्वं चिराद्ययुः ।। १९ ।। ज्ञानोपदेशलेशोऽपि तस्मिन् गुरुजनैः कृतः । वितस्तार महाप्राज्ञे सलिले तैलबिन्दुवत् ॥ २० ॥ मन्दाकिनीव सरितां सतीनामग्रतः सती । तस्याभूद् हृदयानन्दा पत्नी नन्देति नामतः ।। २१ ।। मन्दमन्दपदन्यासैर्विचरन्त्या मनोरमम् । गतौ शिष्या इवैतस्या राजहंस्योऽपि लक्षिताः ।। २२ ॥ सुगन्धिमुखनिःश्वासं यद् यत् किञ्चिदुवाच सा । प्रपेदे वचनं तत्तद्धर्मराकृष्टिमन्त्रताम् ।। २३ ।। रूपवत्या अभूत्तस्याः स्वस्मिन्नेवोपमानता । विहायसो महत्त्वे हि नोपमानं भवेत्परम् ।। २४ ।। स्यूते च स्वगुणैः स्वान्ते दृढं दृढरथस्य सा । अभूद् दृढरथोऽप्यस्या उत्कीर्ण इव चेतसि ॥ २५ ॥
१ दीपश्रेणिः । २ भुजंगाः नागकुमारदेवाः पक्षे रसिकाः वृंदारका वैमानिकदेवाः पक्षे प्रधानपुरुषाश्च तेषां विलासस्थानम् । ३ नागपुरीदेवपुर्योः । ४ दानशालासु । ५ शत्रुभ्यः । ६ गृहीताम् । ७ गंगा । ८ भ्रमराणामाकर्षणे मंत्रोपमत्वम् । ९ आलिखितः ।
तृतीयं पर्व
अष्टमः
सर्गः श्रीशितल
जिनचरितम् ।
जन्मादि ।
।। ११२ ।