________________
त्रिषष्टिशलाकापुरुषचरिते ॥४६॥
तृतीयं पर्व तृतीयः सर्गः श्रीसुमतिजिनचरितम् ।
तत्पृष्ट्वा सौविदल्लोऽपि समेत्यैवं व्यजिज्ञपत् । श्रेष्ठिनो नन्दिषेणस्य प्रेयसीयं सुलक्षणा ॥ १३ ॥ सुलक्षणाया द्वौ पुत्रौ प्रत्येकं च तयोरिमाः । वध्वश्चतस्रो दासीवच्छ्रशूशुश्रूषणोधताः ।। १४ ॥ श्रुत्वा सुदर्शना तच्च चेतस्येवमचिन्तयत् । इयं हि श्रेष्ठिनी श्रेष्ठा या पुत्रमुखमीक्षते ।। १५ ॥ यस्याश्चैताः स्नुषीभूय रुपवत्यः कुलस्त्रियः । नागकन्या इवाष्टापि सेवां कुर्वन्ति सर्वदा ।। १६ ।। न सूनुर्न स्नुषा यस्या धिग्धिग्मां तामपुण्यकाम् । पत्युर्हृदयभूताया अपि मे जीवितं वृथा ।। १७ ।। इतस्ततः क्षिपन्पाणिं समन्ताद्धूलिधूसरः । अङ्के क्रीडति धन्यानां पुत्रो वृक्षे प्लवङ्गवत् ॥ १८ ॥ असञ्जातफला वल्ल्य इवाऽतोया इवाऽऽपगाः । निन्दनीयाः शोचनीया योषितस्तनयं विना ।।१९ ॥ किमन्यैरुत्सवस्तासां न यासां स्युर्महोत्सवाः । सूनुजन्मनामचूलाविवाहकरणादयः ॥ २० ॥ विचिन्त्यैवं म्लानमुखी पद्मिनीव हिमार्दिता । ययौ सुदर्शना देवी सखेदा सदनं निजम् ॥ २१ ॥ अपि प्रियसखीस्तत्र विसृज्य शयनीयके । निःसहा मुक्तनिःश्वासा व्याधितेव पपात सा ॥ २२ ॥ नामुक्त न बभाषे च प्रतिकर्म च नाकरोत् । तस्थौ किं तु मनःशून्या रत्नपाञ्चालिकेव सा ।।२३ ॥ तां तथावस्थितां ज्ञात्वा परिवारमुखान्नृपः । उपेत्यैवमभाषिष्ट प्रेमपेशलया गिरा ॥ २४ ॥ स्वाधीने मय्यपि सदा किमपूर्ण समीहितम् । देवि ताम्यसि येनैवं हंसीव पतिता मरौ ॥ २५ ॥ किमाधिर्बाधते कोऽपि ? व्याधिर्वा कोऽपि नूतनः ? । किं कोऽप्याज्ञां ललो ? किं दुःस्वप्नं हष्टवत्यसि ?॥२६ ।। १ पुत्रवधूभूय । २ कपिवत् । ३ प्रेम्णा पेशला कोमला तया । ४ सीदसि । * "मुखा प० ।- लहते कि ।
पूर्वभवचरितम् ।
॥४६॥