________________
त्रिषष्टिशलाकापुरुषचरिते
४७॥
चापरम् । ताहक
प्रीतिरदृष्टसुतवाहा !|| ३१
तृतीयं पर्व तृतीयः |सर्गः श्रीसुमतिजिनचरितम् ।
बाह्यमाभ्यन्तरं वापि दुर्निमित्तमथाभवत् ?। खेदस्य कारणं ब्रूहि रहस्यं न हि ते मयि ।।२७ ॥ सुदर्शनापि निःश्वस्येत्यवदद् गद्गदाक्षरम् । त्वत्प्रसादात्तवेवाज्ञां न मे कश्चिदखण्डयत् ।। २८ ।। नाधिव्याधी न दुःस्वप्नदुर्निमित्ते न चापरम् । ताक् किमपि बाधायै किन्त्वेकं नाथ ! बाधते ॥ २९ ॥ वृथैव राज्यसम्पत्तिर्वथा वैषयिकं सुखम् । वृथैव चावयोः प्रीतिरदृष्टसुतवक्त्रयोः ॥ ३० ।। श्रद्दधाति श्रियः पश्यन् दरिद्रः श्रीमतां यथा । पुत्रान्पुत्रवतां पश्यन्त्यहमप्येवमस्मि हा !।।३१ ॥ एकतः सर्वसौख्यानि पुत्राप्तिसुखमन्यतः । मनस्तुलातोलनतो द्वितीयमतिरिच्यते ।। ३२ ॥ वरं मृगादयोऽरण्ये ये पुत्रपरिवारिताः । अस्माकं पुत्रहीनानां धिक् तेभ्योऽप्यल्पभाग्यताम् ।। ३३ ॥ अथोचे पृथिवीशोऽपि देवि! धीरा भवाचिरात् । मनोरथं पूरयिष्ये देवताराधनेन ते ॥ ३४ ॥ विक्रमेण न यत्साध्यं यबुद्धीनामगोचरः । यन्मन्त्राणामविषयस्तन्त्राणां यच्च दूरतः ।। ३५ ।। अन्येषामप्युपायानां यदगम्यं तदप्यलम् । साधयन्ति नृणामर्थं प्रसन्ना देवि ! देवताः ॥३६ ॥ तद् विद्धि सिद्धमेवार्थममुं मानिनि ! किं शुचा ? । कुलदेव्याः पुरः स्थास्याम्येष प्रायेण सूनवे ॥३७ ।। राज्ञी राजैवमाश्वास्य जगाम निजधामतः । कृतशौचः शुचिवेषः कुलदेव्या निकेतनम् ।। ३८ ॥ अर्चित्वा देवतां तत्र भूपतिर्दृढनिश्चयः । आपुत्रलाभं त्यक्तान्नपानवृत्तिरुपाविशत् ।। ३९ ।। उपवासे ततः षष्ठे प्रत्यक्षीभूय देवता । प्रसन्ना व्याजहारैवं वरं वृणु महीपते !। ४० ।। राजा विजयसेनोऽपि देवीं नत्वैवमब्रवीत् । समस्तपुरुषोत्कृष्टं पुत्रं देहि प्रसीद मे ॥ ४१ ।। च्युत्वा दिवः सुरवरस्तव सूनुर्भविष्यति । एवं वरमदाद् देवी तत्क्षणाच्च तिरोदधे ॥ ४२ ।। १ अद्दष्ट सुतस्य वक्त्रं मुखं याभ्यां तयोः । २ मन एव तुला तया तोलनात् । ३ पुत्रसुखम् । ४ शोकेन । ५ पुत्रलाभपर्यतं । * °चरम् ।
पूर्वभवचरितम् ।
॥४७॥