________________
त्रिषष्टिशलाकापुरुषचरिते ||१७॥
धात्री खेदयामा चन्द्रे स ज्ञानवाना सहाऽक्रीडप्रमुख
रत्लामा सवयोमय लदग्रीवा । तथा शव व्यतिरिव पुस्त
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् ।
क्रीडया धावतोय मर्त्यरुपधरैः सुरपि । कर चिक्षेप लोकही
भूपतिर्धारयामासोत्सङ्गे हृदि शिरस्यपि । प्रकृष्टमिव माणिक्यं प्रभुं तत्स्पर्शलालसः ॥२१९ ॥ धात्र्यः शक्रकृताः पञ्च ताः प्रपञ्चितभक्तयः । कदापि देहच्छायावत्पावं न मुमुचुः प्रभोः ।। २२० । स धात्रीं खेदयामासाङ्कादुत्तीर्य परिभ्रमन् । अपेतसाध्वसः सिंहीमिव सिंहकिशोरकः ।। २२१ ।। रत्नाश्मभूमिसङक्रान्ते चन्द्रे स ज्ञानवानपि । करं चिक्षेप लोकस्य दर्शयन् बालचापलम् ।। २२२ ॥ आगतैः सवयोभूय मर्त्यरुपधरैः सुरैः । सहाऽक्रीडत्प्रभुः कोऽन्यस्तक्रीडायामपि क्षमः ? ।। २२३ ।। क्रीडया धावतो भर्तुर्वलद्ग्रीवा दिवौकसः । प्रतिकारा इवेभ्य॑स्य धावन्ति स्म पुरः पुरः ।। २२४ ।। लीलया पातितेष्वेषु रक्ष रक्षेतिवादिषु । तथापि विदधे स्वामी परिणामोचितां कृपाम् ॥ २२५ ॥ एवं विचित्रक्रीडाभिश्चित्रैः क्रीडनकैश्च सः । शैशवं व्यतिचक्राम प्रदोषमिव चन्द्रमाः ।। २२६ ।। चतुर्धनुःशतोत्तुङ्गः स्वर्णवर्णो जगद्गुरुः । बभासे कौतुकान्मेरुरिव पुंस्त्वमुपागतः ॥२२७ ।। छन्नवृत्तोन्नतोष्णीषः स्निग्धश्यामलकुन्तलः । अष्टमीन्दुललाटश्रीः कर्णविश्रान्तलोचनः ।। २२८ ।। स्कन्धावलम्बिश्रवणो वृषस्कन्धो महाभुजः । विशालभुजमध्यश्च सिंहोदरकृशोदरः ॥ २२९ ।। करीन्द्रकरकल्पोरुरेणीजचोऽल्पगुल्फकः । कूर्मपृष्ठोन्नतसमतलांहिः सरलाङ्गुलिः ॥ २३० ॥ असम्पृक्तोद्गतश्याममृदुलस्निग्धरोमकः । पद्मामोदिमुखश्वासः सदा मालिन्यवर्जितः ।। २३१ ।। एवं निसर्गसर्वाङ्गसुभगोऽपि जगत्पतिः । पार्वणः शरदेवेन्दुर्योवनेनाधिकं बभौ ।। २३२ ।।
१ विस्तारितभक्तयः । २ अपगतभयः । ३ रत्नोपलनिबद्धभूमिप्रतिबिम्बिते । ४ सवयसः मित्राणि भूत्वा इति । ५ भटाः । ६ घनिकस्य । ७ शिरोवेष्टनम् । ८ अल्पौ गुल्फो घुटिके यस्य ।९ पर्वणि भवः ।
वैचित्रक्रीडायु रक्ष रक्षाला दिवौकसः क्रीडयभा लोकस्य दशा
सम्भव जिनस्य बाल्यं यौवनं च ।
॥१७॥