________________
त्रिषष्टिशलाका
पुरुषचरिते
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् ।
॥१६॥
मानवा अपि ते धन्या ये त्वां पश्यन्ति नित्यशः । त्वदर्शनोत्सवोऽधीश! स्वाराज्यादतिरिच्यते ।।२०५ ॥ स्तुत्वैवं पञ्चधा भूत्वेशानात्स्वामिनमाददे । मूत्यैकया परोभिश्च प्राग्वत्कर्माणि सोऽकरोत् ।। २०६ ।। सेनादेव्याः क्षणात्पार्श्वे वस्त्रालङ्कारभूषितम् । मुमोच प्रभुमुल्लोचेऽबध्नाच्छ्रीदामगण्डकम् ॥२०७ ।। कुण्डले च दूकूले च प्रभोरुच्छीर्षकेऽमुचत् । तामवस्वापनीमहत्प्रतिबिम्बं च सोऽहरत् ।। २०८ ॥ अथाभियोगिकान् देवान् दिवस्पैतिरघोषयत् । कल्पवासिषु देवेषु भवनाधिपतिष्वपि ।। २०९ ।। व्यन्तरेषु ज्योतिष्केषु प्रभोर्देव्याश्च योऽशुभम् । चिन्तयिष्यति तन्मूर्धा सप्तधैव स्फुटिष्यति ॥२१० ॥॥युग्मम् ।। सोऽथ सङक्रमयामासाङ्गुष्ठे भर्तुः सुधारसम् । अर्हन्तोऽस्तन्यपा यस्मात्क्षुधि स्वाङ्गुष्ठपायिनः ॥२११ ॥ सर्वाणि धात्रीकर्माणि सदा कारयितुं प्रभोः । समादिदेशाप्सरसः पञ्च धात्रीः सुरेश्वरः ॥ २१२ ।। एवमासूत्र्य सुत्रामा नत्वार्हन्तं ततो ययौ । मेरुतः पुनरन्येन्द्रा द्वीपं नन्दीश्वराभिधम् ।। २१३ ॥ शाश्वतार्हत्प्रतिमानां तत्र चाष्टाह्निकोत्सवम् । कृत्वा निजनिजं स्थानं ययुः सर्वे सुरा-5सुराः ।। २१४ ।। प्रातर्जितारिणा राज्ञा पुत्रभूयमुपेयुषः । अर्हतो जगदहस्य चक्रे जन्मोत्सवो महान् ॥ २१५ ॥ गृहेगहे पथिपथि विपणौ विपणावपि । पुर्यां तत्रोत्सवो जज्ञे सर्वस्यां राजवेश्मवत् ॥ २१६ ॥ यद्गर्भस्थेऽत्र सम्भूतं धान्यं शं चाभवत्ततः । सम्भवः शम्भवश्चेति पिता नाम विभोर्व्यधात् ।। २१७ ॥ मुहर्मुहुरुदैक्षिष्टं बालरुपं जगत्पतिम् । सुधामग्नमिवात्मानं मन्यमानो महीपतिः ॥ २१८ ॥
१ स्वर्गराज्यात् । २ अन्याभिः मूर्तिभिः । ३ विताने । ४ पुष्पदामगुच्छकं । ५ उपधाने । ६ इन्द्रः । ७ तन्मस्तकं । ८ स्तने भवं स्तन्यं तत् न पिबन्ति ते । ९ अष्टसु अहःसु भवः आष्यक्षिकः स चासौ उत्सवश्च तं । १०६ष्टवान् । * कर्माणि सदा तदा कार ।
सम्भवप्रभोः नामस्थापनम् ।