________________
त्रिषष्टिशलाकापुरुषचरिते ॥१५॥
ARRAS
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् ।
दिव्याङ्गरागपूजादि भक्त्या जिनपतेर्व्यधात् । स आरणाच्युतपतिर्ववन्दे च यथाविधि ।। १९१ ॥ इन्द्रा द्वाषष्टिरन्येऽपि शक्रवर्ज तथा व्यधुः । जगत्पवित्रीकरणं स्नात्रं त्रिभुवनेशितुः ।। १९२ ।। भूत्वाथ पञ्चधेशान एकोऽङ्के नाथमग्रहीत् । अन्यश्त्रं चामरे द्वावन्योऽग्रेऽस्थाच्च शक्रवत् ॥ १९३ ॥ शक्रः प्रभोश्चतसृषु दिसूक्ष्णः स्फाटिकानथ । उत्तुङ्गश्रृङ्गांश्चतुरो भक्त्येकचतुरोऽकरोत् ।। १९४ ।। तेषां श्रृङ्गेभ्य उत्पेतुर्वारिधारा मनोरमाः । मूले भिन्नाः प्रान्ते मिश्राः पेतुश्च स्वामिमूर्धनि ।। १९५ ।। अकरोदित्थमन्येन्द्रकृतस्नात्रविलक्षणम् । स्नात्रं सौधर्मकल्पेन्द्रो जिनेन्द्रस्यातिभक्तितः ।। १९६ ॥ उक्ष्णस्तानुपसंहृत्य चर्चा_दि जगद्गुरोः । चक्रे शक्रः सप्रमोदं प्रणम्यैवमथास्तवीत् ।। १९७ ।। नमो भगवते तुभ्यं विश्वनाथाय तायिने । तृतीयतीर्थनाथाय सनाथाय महर्द्धिभिः ॥ १९८ ॥ ज्ञानस्त्रिभिश्चतुर्भिश्चातिशयैः सहजन्मभिः । जगद्विलक्षणोऽप्यष्टसहस्रस्फुटलक्षणः ।। १९९ ॥ सदैव हि प्रमत्तानां प्रमादच्छेदकारणम् । इदं त्वद्जन्मकल्याणं कल्याणायाध मादृशाम् ।। २००॥ सकलापि श्लाघनीया यामिनीयं जगत्पते ! । अकलत्तनुर्यस्यामुदगास्त्वं सुधाकरः ॥ २०१॥ अमर्त्यलोकवन्मर्त्यलोकोऽप्यस्त्वधुना प्रभो ! । देवैस्त्वद्वन्दनाहेतोरेहिरेयाहिरापरैः ।। २०२ ॥ देव ! त्वदर्शनसुधास्वादसन्तुष्टचेतसाम् । पर्याप्तं जीर्णसुधयातः परेण सुधान्धसाम् ।।२०३ ।। भगवन् ! भरतक्षेत्रसरोवरसरोरुह! । भूयान्मधुव्रतस्येव त्वयि मे परमो लयः ।। २०४ ।।
१ अच्युतेंद्रः । २ बलिवान् । ३ भक्त्यामेकः एव चतुरः । ४ चर्चा अंगचर्चनं अर्चा पूजन आदी यस्य तत् । ५ रक्षणकर्त्रे । ६ युक्ताय । ७ अकलंका तनूर्यस्य । ८ स्वर्गलोकवत् । ९ रे आगच्छ रे गच्छ' इत्यादि भाषण तत्परैः । १० देवानाम् । * °धुकरस्ये ।
S
शक्रकृता स्तुतिः ।
ASRASHASAGAR
॥१५॥