________________
त्रिषष्टि
शलाका
पुरुषचरिते 119211
पितृभ्यामुत्सवातृप्त्या परेद्युः प्रार्थितः प्रभुः । परिणेतुं नृपकन्याः सुरकन्यासहोदराः ।। २३३ ।। जानन् भोगफलं कर्म पित्रोराज्ञां च पालयन् । कन्यानामुपयमनं सोऽनुमेने महामनाः ।। २३४ ।। राज्ञा जितारिणा साक्षात्छक्रेण च समेयु॑षा । हाहाहूहूप्रभृतिषु गायत्सु मधुरस्वनम् ॥ २३५ ॥ गन्धर्वेषु मृदङ्गादि गम्भीरं वादयत्सु च । रम्भातिलोत्तमाद्यासु नृत्यन्तीष्वप्सरःसु च ।। २३६ ।। धवलानुद्गृणन्तीषु कुलनारीषु चोच्चकैः । कारितः सम्भवः स्वामी कन्योद्वाहमहोत्सवम् ।। २३७ ।। ॥ त्रिभिर्विशेषकम् ॥
नन्दनोद्यानकल्पासु कदाप्युद्यानवीथिषु । रत्नाद्रिशृङ्गतुल्येषु क्रीडाद्रिषु कदापि च ॥ २३८ ॥ सुधाकुण्डस ृक्षासु कदाचित् केलिवापिषु । कदाचिच्चित्रशालासु धुविमानसनाभिषु ॥ २३९ ॥ वैदग्ध्यरमणीयाभी रमणीभिः सहस्रशः । रेमे श्रीसम्भवस्वामी करिणीभिरिव द्विपः ॥ २४० ॥ ॥ त्रिभिर्विशेषकम् ॥ भुञ्जानो विविधान् भोगान् कौमारे परमेश्वरः । गमयामास पूंर्वाणां लक्षाणि दश पञ्च च ।। २४१ ।। राजाथ भवनिर्विण्णः सम्भवस्वामिनं तदा । उपरुध्य न्यधाद् राज्येऽङ्गुलीये वररत्नवत् ॥ २४२ ॥ सद्गुरोः पादपद्मान्ते जितारिनृपतिः स्वयम् । उपादाय परिव्रज्यां निजमर्थमसाधयत् ॥ २४३ ॥ तातोपरोधादादाय राज्यं प्राज्यं पराक्रमः । ररक्ष सम्भवस्वामी पृथिवीं पुष्पदामवत् ॥ २४४ ॥
१ विवाहं । २ प्राप्तवता । ३ उद्गायन्तीषु । ४ नंदनोद्यानादीषन्न्यूनासु । ५ उद्यानराजिषु । ६ सध्क्षा तुल्या । ७ सनाभिः सध्शा | ८ चातुर्यं । ९ षट्पंचाशत्सहस्राधिकसप्ततिलक्षकोटिवर्षात्मकः कालविशेषः पूर्वः । १० मुद्रिकायाम् । ११ पराक्रमवान् । * "तृभ्यां परया प्रीत्याऽपरे ।
तृतीयं पर्व
प्रथमः
सर्गः
श्रीसम्भव
जिन
चरितम् ।
जितारिराज्ञः
प्रव्रज्या सम्भवजिनस्य च राज्यपालनम् ।
119211