SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते 1193 11 ताः कृत्वा विवरं भूमौ न्यधुर्नालं निधानवत् । वज्र रत्नैश्च सम्पूर्य दुर्वया पीठिकां व्यधुः ।। १५० ।। प्रत्यग्वर्जं प्रतिदिशं जिनजन्मगृहस्य ताः । विचक्रुः कदलिगृहं चतुःशालसमन्वितम् ।। १५१ ।। पाणिभ्यां जिनमादाय जिनाम्बां दत्तबाहवः । अपाग्रम्भाचतुःशाले नीत्वा सिंहासने व्यधुः ।। १५२ ।। उभावभ्यज्य तैलेन लक्षपाकेन तास्ततः । सुगन्धेनोद्वर्तनेनोद्वर्तयामासुराशु च ॥ १५३ ॥ नीत्वोभौ प्राक्चतुःशाले न्यस्य सिंहासने च ताः । गन्धोदकैरस्नपयन् देवदूष्येण चामृजन् ।। १५४ ।। गोशीर्षेण व्यलिम्पंश्च देवदूष्यांशुकान्यथ । भूषणानि च दिव्यानि ता द्वाभ्यां पर्यधापयन् ।। १५५ ।। उदग्रम्भाचतुःशाले जिनं तद्जननीं च ताः । नीत्वोपवेशयामासू रत्नसिंहासनोपरि ।। १५६ ।। अथाभियग्रानाय्य भूरि गोशीर्षचन्दनम् । समिँधीकृत्य जुहुवुर्वह्नावरँणिनिर्मिते ।। १५७ ।। स्वामिनः स्वामिमातुश्च रक्षापोट्टलिकामथ । तद्वह्निभस्मना कृत्वा बबन्धुस्ता यथाविधि ।। १५८ ।। पर्वतायुर्भवेत्युच्चैरुच्चारितगिरोऽथ ताः । कर्णाभ्यर्णे भगवतो ग्रावगोलावताडयन् ।। १५९ ।। शय्याजुषं सूतिगृहेऽर्हन्तं तन्मातरं च ताः । कृत्वावस्थिरे तारं गायन्त्यो मङ्गलान्यथ ।। १६० ।। स्वामिपदाम्बुजाभ्यर्णे यियासूनीव सर्वतः । तदा च पुरुहूतानामासनानि चकम्पिरे ।। १६१ ।। जिनजन्मावधेर्ज्ञात्वोत्थाय शक्रोऽपपादुकः । दत्वा पदानि सप्ताष्टान्यवन्दत जिनेश्वरम् ॥ १६२ ॥ घण्टानिर्घोषसेनानी घोषणामिलितैः सुरैः । परिवव्रे सुरेन्द्रोऽथ जिनजन्मोत्सवोत्सुकैः ।। १६३ ।। १ भाषायां 'चौक' तेन युक्तम् । २ लेपनेन । ३ देववस्त्रेण । ४ पीतचंदनेन । ५ सेवकदेवैः । ६ असमिधं समिधमिव कृत्वा । ७ निर्मथनीयेन काष्ठेन उत्पादिते । ८ पाषाणगोलकौ । ९ दीर्घ । १० इन्द्राणां । tuli तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् । दिक्कुमारीकृतो जन्मोत्सवः । 1193 11
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy