________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३॥
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिन
चरितम् ।
आरुह्य पालकं शक्रः सामरः सपरिच्छदः । मध्येनन्दीश्वरं गत्वा स्वामिवेश्माययौ ततः ॥ १६४ ।। स प्रदक्षिणयामास स्वामिवेश्म विमानगः । मुक्त्वा विमानं चैशान्यां ततो हरिरवातरत् ।। १६५ ।। अथ तत्स्वामिनो वेश्म प्रविशेश पुरन्दरः । तमालोकनमात्रेऽपि प्रणनाम च भक्तितः ।। १६६ ।। स त्रिः प्रदक्षिणीकृत्य भगवन्तं समातरम् । पञ्चाङ्गस्पृष्टभूपीठो भूयोऽपि प्रणनाम च ॥ १६७ ।। अवेस्वापनिकां दत्त्वा देव्याः पार्श्वे निधाय च । प्रेतिच्छन्दं विभोः शक्रः पञ्चमूर्तिरभूत्स्वयम् ।। १६८ ।। ||* तत्र चैको दधौ नाथं शक्रच्छत्रमथापरः । चामरे द्वावथैकोऽगाद्वज्रमुल्लालयन् पुरः ॥१६९ ॥ सुरैर्जयजयारावकारिभिः परिवारितः । गृहीत्वा स्वामिनं शक्रः क्षणान्मेरुशिरो ययौ ॥ १७०॥ अतिपाण्डुकम्बलायां शिलायां तत्र वासवः । सिंहासने निषसाद कृत्वोत्सङ्गे जगद्गुरुम् ।। १७१ ।। तदैवासनकम्पेनावधिज्ञानमनाहतम् । प्रयुज्य तत्क्षणादेवाच्युतेन्द्रः प्राणतोऽपि च ।। १७२ ॥ सहस्रारो महाशुक्रो लान्तको ब्रह्मवासवः । माहेन्द्रः सुर्नत्कुमार ईशानश्चमरो बलिः ॥ १७३ ।। धारणो भूतानन्दश्च हरिर्हरिसहस्तथा । वेणुदेवो वेणुदारी चामिशिखोऽनिमाणवः ॥ १७४ ।। वेलम्बः प्रभजनश्च सुघोषोभिध एव च । महाघोषो जलकान्ताभिधानोऽथ जलप्रेभः ॥ १७५ ॥ अथ पूर्णोऽवशिष्टश्चामितोऽथामितवाहनः । तथा कालेमहाकालौ सुरुपप्रतिरुपकौ ।। १७६ ।। पूर्णभद्रस्तथा मौणिभद्रो भीमाभिधोऽपि च । महाभीमः किन्नरश्च तथा किम्पुरुषाभिधः ।। १७७ ॥
१ तन्नामकं विमानं । २ सपरिवारः । ३ ईशानदिशि । ४ पञ्चाङ्गैः स्पृष्टः भूभागो येन । ५ तन्नाम्नी निद्रां । ६ प्रतिबिंबम् । ७ न आहतं अनाहतं अप्रतिहतं ।
चतुष्पटीन्द्रकृतो जन्मोत्सवः ।
॥१३॥