________________
तृतीयं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते
॥११॥
सर्गः
श्रीसम्भवजिनचरितम् ।
गन्धाम्बुवृष्टिरभवद्दिवि दध्वान दन्दभिः । रजोऽपनिन्ये पवनो मही चोच्छ्रासमासदत् ॥ १३६ ॥ तथाधोलोकतो भोगङ्कराद्या दिक्कुमारिकाः । अष्टेयुः स्वामिसदनमर्हद्जन्मविदोऽवधेः ।। १३७ ।। तास्त्रिः प्रदक्षिणीकृत्य जिनं तदजननीमथ । नत्वा स्वं ज्ञापयामासुर्मा भैषीर्वादपूर्वकम् ।। १३८ ।। दिश्यैशान्यां स्थिताः कृत्वा समुद्घातं च वैक्रियम् । जहुः संवर्तवातेनायोजेनं कण्टकादि च ।। १३९ ॥ भगवन्तं ततो नत्वा तदासन्ने निषद्य च । गायन्त्यस्तद्गुणांस्तस्थुर्गोत्रस्त्रिय इवोच्चकैः ।। १४०॥ अथोर्ध्वलोकतो मेघङ्कराद्या दिक्कुमारिकाः । अष्टैयुस्तद्वदानेमुः स्वामिनं स्वामिमातरम् ।। १४१ ।। विकृत्याभ्राणि तद्वेश्मपार्श्वतो योजनावधि । रजांसि शमयामासुस्ता गन्धोदकवृष्टिभिः ।। १४२ ।। जानुदनी पञ्चवर्णपुष्पवृष्टिं विधाय ताः । नत्वा जिनं जिनगुणान् गायन्त्योऽस्थुर्यथोचितम् ।। १४३ ॥ दिक्कुमार्यः प्राग्रुचकादष्ट नन्दोत्तरादयः । एत्य नत्वा तथैवास्थुर्गायन्त्यो धृतदर्पणाः ।। १४४ ।। दिक्कुमार्योऽपाग्रुचकात्समाहारादयोऽष्ट च । एत्य नत्वा दक्षिणेऽस्थुः सभृङ्गारागपाणयः ।। १४५ ॥ प्रत्यग्रुचकतोऽष्टैयुर्दिकुमार्य इलादयः । नत्वास्थुयंजनभृतो गायन्त्यः पश्चिमेन तु ॥ १४६ ।। अष्टोदग्रुचकादेयुर्देव्यश्चालम्बुसादयः । नत्वा चोत्तरतस्तस्थुर्गायन्त्यो धृतचामराः ।। १४७ ।। एयुश्चतस्रश्चित्राद्या विदिग्रुचकतोऽप्यथ । नत्वा विदिक्षु तस्थुश्च गायन्त्यो दीपपाणयः ।। १४८ ॥ एयुश्चतस्रो रुपाद्या देव्यो रुचकमध्यतः । चतुरङ्गुलवर्ज ता नालं निचकृतुः प्रभोः ।।१४९ ।।
१ गंधयुक्तं अम्बु तस्य वृष्टिः ।२ योजनपर्यन्तम् । ३ जानुप्रमाणाम् । ४ भृगारः स्वर्णरचितपात्रविशेषः झारी इति भाषायां तेन सहितः दक्षिणहस्तः यासां ताः । ५ तालवृन्तधराः ।
दिक्कुमारी
जन्मोत्सवः ।
॥११॥