________________
त्रिषष्टिशलाकापुरुषचरिते |॥१०॥
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् ।
देवी प्रबुद्धा तान् स्वप्नान्नृपायाख्यान्नृपोऽपि च । व्याख्यात्त्रैलोक्यवन्धस्ते नूनं सुनुभविष्यति ।। १२३ ॥ इन्द्राश्वासनकम्पेन विज्ञायोपेत्य तत्र च । सेनादेवीं नमस्कृत्य स्वप्नार्थं व्याचचक्षिरे ।। १२४ ।। एतस्यामवसर्पिण्यां तृतीयस्तीर्थनायकः । भविष्यति जगत्स्वामी तव स्वामिनि ! नन्दनः ॥ १२५ ॥ तेन स्वप्नविचारेण स्तनितेनेव केर्किनी । मुदिता तं निशाशेषं देव्यनैषीत्प्रजाग्रती ।। १२६ ॥ वज्र वज्राकरोर्वीव कृशानुमिव चारणिः । महासारं पवित्रं च गर्भ देवी बभार तम् ॥ १२७ ॥ देव्याः स उदरे गर्भो निगूढं ववृधे ततः । गङ्गाया इव पानीये तपनीयपयोरुहम् ॥ १२८ ॥ तदाभूतां शौ देव्याः सविकाशे विशेषतः । सरस्या हि सरोजानि विशिष्यन्ते शरत्क्षणे ।। १२९ ॥ लावण्यमले कुचयोः पीनत्वं मन्दता गतौ । देव्याः प्रतिदिनं गर्भानुभावादत्यरिच्यत ।। १३० ॥ फाल्गुनस्य सिताष्टम्यां द्यौरिवाम्भोदलक्षणम् । गर्भ तं बिभ्रती साभूज्जगतोऽपि मुदे तदा ।। १३१ ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । मार्गशुक्लचतुर्दश्यां चन्द्रे मृगशिरःस्थिते ।। १३२ ।। जरोयुरक्तप्रभृतिवर्जितं वाजिलाञ्छनम् । प्राचीवार्क स्वर्णवर्णं सुखं सा सुषुवे सुतम् ।। १३३ ॥ ध्वान्तध्वंसकृदुद्योतस्त्रैलोक्येऽपि तदा क्षणम् । क्षणं च सौख्यं सञ्जज्ञे नारकप्राणिनामपि ।। १३४ ॥ ग्रहाः स्वोच्चं ययुः स्थानं प्रसेदुः सकला दिशः । ववौ वायुः सुखं लोकश्चिक्रीड निखिलस्तदा ॥ १३५ ॥
१ तन्नाम्नि कालविशेषे । २ मयूरी । ३ वज्राणां हीरकाणां आकरः खनिः यस्यां सा । ४ अरणिः काष्ठविशेषः । ५ जरायुः गर्भाशयः रक्तं रुधिरं तदादिभिर्वर्जितम् । ६ सुखं यस्मिन्यथा स्यात् तथा । ७ ध्वांतस्य अंधकारस्य ध्वंसः नाशः तं करोतीति ताक यः उद्योतः प्रकाशः । * माघस्य सितसप्तम्यां । -लाञ्छितम् ।
दिक्कुमारीकृतो जन्मोत्सवः ।
॥१०॥