________________
त्रिषष्टिशलाका
पुरुषचरिते
॥७॥
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् ।
राग-द्वेषादयश्चेतो द्विषन्तो नित्यमुद्यताः । इतः कषायाः प्रबलाः खला इव विपत्प्रदाः ।।७८ ॥ न किञ्चन सुखायेह संसारे मरुदेशवत् । सुखवासेन तिष्ठामीत्याः प्राणी न विरज्यति ।। ७९ ॥ सुखाभासे विमूढस्य प्रसुप्तस्येव सौप्तिकम् । कालपाशः पतत्याशु सद्यः प्राणापहारकृत् ।। ८० ॥ तदमुष्य शरीरस्य नश्वरस्य यथा तथा । फलं हि धर्माचरणं सिद्धान्नस्येव भोजनम् ।। ८१ ॥ नश्वरेण शरीरेणाविनश्वरपदार्जनम् । अहो सुकरमप्येतद्विमूढैः क्रियते न हि ।। ८२ ।। वपुषा तदनेनाद्य क्रेतुं निर्वाणसम्पदम् । भृशमेषोऽहमुच्छास्ये निधास्ये राज्यमात्मजे ॥८३ ।। इति निश्चित्य रभसादाजूहवदिलापतिः । द्वारपालेन विमलकीर्ति कीर्तिप्रियं सुतम् ॥ ८४ ॥ प्रकृष्टदैवतस्येव भक्त्या परमया पितुः । पादौ नत्वा कुमारः स बद्धाञ्जलिरदोऽवदत् ।। ८५ ।। महतापि निदेशेन प्रसीदानुगृहाण माम् । पुत्रभाण्डमसौ बाल इति शङ्कां च मा कृथाः ।। ८६ ।। प्रत्यर्थिनः पार्थिवस्य कस्याऽऽच्छिन्देऽद्य मेदिनीम् ? । सपर्वतं पर्वतीयं नृपं कं साधयामि च ? ।। ८७ ॥ सजलं जलदुर्गस्थमन्तयामि रिपुं च कम् ? । यो वः शल्यायतेऽन्योऽपि तमप्याशूत्खनाम्यहम् ।। ८८ ॥ बालोऽपि तव पुत्रोऽस्मि क्षमो दुःसाध्यसाधने । तातस्यैव प्रभावोऽयं न भटमैन्यतात्र मे ।। ८९ ।। राजापि व्याजहारैवं प्रत्यर्थी पार्थिवो न मे । पर्वतीयो न वा कोऽपि व्यतिक्रामति मद्वचः ॥९० ॥ न च द्वीपाधिपः कोऽपि मदाा व्यतिलचते । यत्साधनाय वत्स ! त्वां प्रहिणोमि महाभुज ! ॥९१ ॥ एकः शल्यायते किन्तु भववासो ममानिशम् । तदुद्धर कुलोत्तंस! धराभारं धुरन्धर ! ।। ९२ ॥ १ प्रवासात् । २ रात्रियुद्धं । ३ शत्रोः । ४ पर्वते भवं । ५ भटं आत्मानं मन्यते तस्य भावः । * वा ।
सम्भव
जिनस्य
पूर्वभवः ।
७॥