________________
त्रिषष्टिशलाका
तृतीयं पर्व
प्रथमः
पुरुषचरिते
सर्गः श्रीसम्भव
।।८॥
जिन
चरितम् ।
मयेव गृह्यतामेतत्त्वया राज्यं क्रमागतम् । आत्तदीक्षो यथाभीक्ष्णं भववासं त्यजाम्यहम् ।। ९३ ।। अलङ्घनीयां गुर्वाज्ञां स्वसन्धों चाधुना कृताम् । संस्मरन् वत्स ! भक्त्यापि नान्यथा कर्तुमर्हसि ॥९४ ।। दध्याविति कुमारोऽपि तातेनाज्ञां प्रयच्छता । मत्सन्धां स्मारयता च हा ! कृतोऽस्मि निरुत्तरः ।। ९५ ।। इत्यादि चिन्तयन् राजपुत्रो राज्ञा स्वपाणिना । आदाय राज्ये निदधे साभिषेकमहोत्सवम् ।। ९६ ॥ राजापि कृतदीक्षाभिषेको विमलकीर्त्तिना । शिबिकारुढश्चागात् सूरि नाना स्वयम्प्रभम् ।।९७ ॥ तस्य चाचार्यवर्यस्य समीपे स नृपाग्रणीः । प्राव्राजीत्सर्वसावधप्रत्याख्यानपुरःसरम् ।। ९८ ॥ साम्राज्यवत्परिव्रज्यामन्तरङ्गद्विषज्जयात् । स संयमरथारुढो विधिवत्पर्यपालयत् ।। ९९ ।। विंशतेः स्थानकानां च स्थानकैरपरैरपि । स पुपोष निजं कर्म तीर्थकृन्नामनामकम् ।। १०० ।। उपसर्गरनुद्विग्नो मोदमानः परीषहैः । स आयुः क्षपयामास स्वयाममिव यामिकः ॥ १०१ ।। विहितानशनो मृत्वा कल्पं स प्रापदानतम् । निर्वाणफलदायिन्या दीक्षायाः स्तोकमीदृशम् ॥१०२ ।। ततश्च जम्बूद्वीपे प्राग्भरतार्धस्य भूषणम् । श्रावस्तीत्यस्ति विस्तीर्णा नगरी श्रीगरीयसी ।। १०३ ॥ बभूव तस्यामिक्ष्वाकुकुलक्षीरोदचन्द्रमाः । जितारिरित्यरिजयात्यथार्थाख्यः क्षमापतिः ।। १०४ ॥ मृगेष्विव मृगेन्द्रस्य पक्षीन्द्रस्येव पक्षिषु । न समो नाधिको वापि तस्याभूत्कोऽपि राजसु ।। १०५ ।। स रेजे राजभी राजा पत्तीकृत्य प्रवेशितैः । ग्रहैरिव ग्रहपतिर्मण्डलान्तः प्रवेशिभिः ।। १०६ ।। नाधर्म्य किंञ्चिदप्यूचे नाचचार च तादृशम् । नाचिन्तयच्च ताक्षं स धर्म इव मूर्तिमान् ॥ १०७ ॥ १ प्रतिज्ञां । * °लभूतया दी ।
सम्भव
जिनस्य
पूर्वभवः ।
*
॥८॥