________________
तृतीयं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते
॥६॥
सर्गः
श्रीसम्भवजिनचरितम् ।
आसाद्यते दुरन्तेनार्बुदाख्येन व्रणेन वा । मोह्यते वा प्रवाहेण ग्रहण्या गृह्यतेऽथवा ॥ ६५ ॥ रुध्यते वापि विध्या कोशेन क्लिश्यतेऽथवा । श्वासेन पूर्यते वापि शूलेनोन्मूल्यतेऽथवा ।। ६६ ॥ सदा सन्निहितैर्दोषैरित्यादिभिरनेकशः । दूतैरिव कृतान्तस्य जन्तुः पञ्चत्वमाप्यते ।। ६७ ॥
॥त्रयोदशभिः कुलकम् ।। तथापि शाश्वतंमन्यः पशुवन्मन्दधीर्जनः । प्रवर्त्तते न ग्रहीतुं जीवितव्यतरोः फलम् ।। ६८ ।। हा ! दुःस्थिता भ्रातरो मे बाला मेऽद्यापि सूनवः । अनूढा कन्यका चेयं पाठ्यश्चायं कुमारकः ।। ६९ ॥ नवोद्वैव हि भार्येयं वृद्धौ च पितराविमौ । दुःस्थितौ श्वशुरावेतौ विधवा भगिनी त्वियम् ॥ ७० ॥ इत्यजस्रं जनं पाल्यं विचिन्तयति मुग्धधीः । हृदि बद्धशिलाकल्पं न तु वेत्ति भवार्णवम् ॥७१ ॥ न तृप्तोऽद्यापि दयितावपुराश्लेषशर्मणा । न ध्रातः पयसश्चापि माल्येच्छा न ह्यपूर्यत ।। ७२ ॥ न चापूरि मनोहारि पदार्थेक्षामनोरथः । वीणावेण्वादिगीतानां न प्रीतोऽस्मि मनागपि ।।७३ ॥ अद्यापि च कुटुम्बाय भाण्डागारं न पूरितम् । नवीकृतं समुद्धत्य जीर्णमेतन्न मन्दिरम् ।।७४ ।। गमितेषु परां शिक्षा नारुढोऽस्म्येषु वाजिषु । नोक्षाणो वाहिताश्चामी सुस्य॑दाः स्यन्दनोत्तमैः ॥७५ ॥ करोतीत्यन्तकालेऽपि पश्चात्तापं जडो जनः । धर्मश्चक्रे मया नेति ना शेते मनागपि ॥७६ ॥
॥पञ्चभिः कुलकम् ॥ इतः सदोद्यतो मृत्युरितो नानापमृत्यवः । व्याधयोऽवस्थिताश्चेत इतो बहव आधयः ।।७७ ॥ १ रोगविशेषः । २ मृत्युः । ३ अविवाहिता । ४ सुष्ठु स्यदः वेगः एषां ते । ५ नानुतप्यते । ६ मानसिक्यः पीडा ।
सम्भवजिनस्य पूर्वभवः ।
॥६॥