________________
त्रिषष्टिशलाकापुरुषचरिते
॥५॥
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिन
चरितम् ।
नीलीरक्तांशुकमयः स व्योम्न इव कञ्चकः । तडिल्लतामण्डनभृत्समन्ताद् व्यानशे दिशः ।। ५०॥ अत्रान्तरे समुत्तस्थावामूलान्दोलितद्रुमः । पातालकुम्भसर्वस्वमिवोच्चण्डः समीरणः ।। ५१ ।। वातेन तेन महता स महानपि वारिदः । अर्कतूलमिवोद्भूय दिशोदिशमनीयत ।। ५२ ।। आविर्भूतं क्षणान्मेघं विनष्टं च क्षणादपि । तं प्रेक्ष्य स क्षमानाथः सुधीरेवमचिन्तयत् ।। ५३ ॥ असौ सम्पश्यमानानां हष्टनष्टो यथाम्बुदः । ज्ञातं तथान्यदपि हि संसारे सर्वमीदृशम् ।। ५४ ।। तथाहि स्वेच्छया जल्पन् गायन्नृत्यन् हसन्नथ । दीव्यन् विचित्रान्द्रविणार्जनोपायान् विचिन्तयन् ।। ५५ ॥ गच्छंस्तिष्ठन् शयानो वाधिरुढो वाहनेऽपि वा । कुप्यन्वा विलसन्वाऽपि गृहे वा बहिरेव वा ।। ५६ ॥ कालादिष्टेन सद्योऽपि दन्दशूकेन दश्यते । विद्युद्दण्डेन चण्डेन विनिपत्य निपात्यते ।। ५७ ।। मतङ्गजेन मत्तेन पिष्यते वा रदादिभिः । जीर्णवप्रादिभीत्त्या वा विनिपत्य पिधीयते ।। ५८ ॥ व्याघेण भक्ष्यते वापि बुभुक्षाक्षामकुक्षिणा । दोषेण वैक्रियेणाथ दुश्चिकित्स्येन गृह्यते ।। ५९ ।। अकस्मादुन्मदेनाथ पात्यते तुरगादिना । वैरिचौरादिना वापि हन्यते क्षुरिकादिना ।। ६० ।। दह्यते वा प्रदीप्तेन प्रदीपनकवह्निना । कृष्यते वा महावृष्टिसरित्पूरादिरंहसा ।। ६१ ।। बलवद्वातदोषेण सर्वाङ्गं भज्यतेऽथवा । आश्लिष्यन्ते श्लेष्मणा वा शान्ताशेषतनूष्मणा ।। ६२ ।। यदि वा पित्तदोषेण प्रबलेन विलुप्यते । सद्यस्कसन्निपातेन यदि वा परिभूयते ।। ६३ ।। लूतया भक्ष्यते वाथ प्राप्यते राजयक्ष्मणा । विसूचिकोपद्रवेण यदि वापि कदर्थ्यते ॥ ६४ ॥ १ अतिमहान् । २ वायुः । ३ दंदशूकः सर्पः । ४ दंतादिभिः । ५ लूता रोगविशेषः । ६ रोगविशेषः । ७ पीड्यते । * क्वापि ।
सम्भवजिनस्य पूर्वभवः ।
||५||