________________
त्रिषष्टिशलाकापुरुषचरिते
॥४॥
चिन्तयित्वैवमुर्वीशः सूदानिति समादिशत् । सङ्घभुक्तावशेषं भो ! भोक्ष्येऽहं खल्वतः परम् ।। ३८ ।। मत्कृते कृतमन्नादि दातव्यं व्रतिनामतः । श्रावका भोजयितव्याः पृथक्सिद्धौदनेन हि ।। ३९ ।। तथेति प्रतिपद्याज्ञां राज्ञस्ते सूदपुङ्गवाः । तथैव विदधुर्नित्यं स्वयं चैक्षिष्ट पार्थिवः ॥ ४० ॥ नासिकापेयसौरभ्याः कलमाः कमला इव । स्थूला माषकणेभ्योऽपि मुद्द्रा रससमुद्गकाः ।। ४१ ।। घृतोर्देस्य पयांसीव प्रचुराणि घृतानि च । सुधाया इव मित्राणि चित्राणि व्यञ्जनानि च ॥ ४२ ॥ मण्डकाः खण्डसम्मिश्रा मोदकाश्च प्रमोदकाः । खाद्यानि स्वादहृद्यानि मण्डिकाः खण्डमण्डिताः ।। ४३ ॥ सुकुमारा मर्मराला वेटकाश्चातिपेशलाः । तीमनं च मनोहारि पिच्छलानि दधीनि च ॥ ४४ ॥ दुग्धानि क्वाथसिद्धानि मौर्जिता क्षुत्प्रमार्जनी । राजभोजनवत्तत्र जाताः श्रावकभोजने ॥ ४५ ॥ ॥ पञ्चभिः कुलकम् ॥
एषणीयकल्पनीयप्रासुकानि पुनः स्वयम् । महामुनीनां स ददौ महाराजो महामनाः ।। ४६ ।। दुर्भिक्षकालं सकलमेवं स वसुधाधवः । ददौ सकलसङ्घाय भोजनादि यथाविधि ॥ ४७ ॥ वैयावृत्त्यं समधिं च सर्वसङ्घस्य कुर्वता । अर्जितं तीर्थकृन्नाम कर्म तेन महीभुजा ॥ ४८ ॥ निषण्णश्चन्द्रशालान्तरपरेद्युः स उद्यतम् । नभस्यपश्यदम्भोदमातपत्रमिवावनेः ॥ ४९ ॥
१ पाचकान् । २ पाचकश्रेष्ठाः । ३ समुद्रकः संपुटः 'डबो' इति भाषायां प्रसिद्धः । ४ तन्नाम्नः समुद्रस्य । ५ शाकानि । ६ भक्ष्यविशेषा भाषायां “मांडा । ७ भक्ष्यविशेषा भाषायां "खाजा" । ८ मरमर शब्दवंतः । ९ वडा इति भाषायां प्रसिद्धिः । १० क्वथिका कढी इति भाषायां । ११ हृह्यम् । १२ चिक्कणानि । १३ रसाला श्रीखण्ड इति भाषायां प्रसिद्धिः १४ निर्दोषं । १५ सेवां । १६ समाधानम् । १७ प्रासादतलं अगाशी इति ख्यातम् । * न च । न तु । इति पाठान्तरे । + °थशुद्धा । तत्राभवन् श्राव' इति पाठान्तरं । • त्रिभिर्विशेषकम् ।
तृतीयं पर्व
प्रथमः सर्गः
श्री सम्भव
जिनचरितम् ।
सम्भव
जिनस्य
पूर्वभवः ।
118 11