________________
त्रिषष्टिशलाकापुरुषचरिते
॥३॥
तृतीयं पर्व प्रथमः
सर्गः
श्रीसम्भवजिनचरितम् ।
धान्याभावादजायन्त पौरजानपैदा जनाः । तापसा इक वृक्षत्वक्कन्दमूलंफलाशिनः ।। २४ ।। कथञ्चिदपि लब्धेन ग्रासेन महतापि हि । न तृप्यन्ति स्म सातभस्मका इव मानवाः ।। २५ ।। भिक्षया लज्जमानः सन् भिक्षाग्रहणहेतवे । बभूव लोकः प्रायेण मायातापसवेषभृत् ।। २६ ॥ पितरो मातरः पुत्रा मिथस्त्यक्त्वाशनाशया । अन्यतश्चान्यतश्चायुर्दिक्सम्मोहवशादिव ॥ २७ ॥ अपि सम्पश्यमानस्य क्रन्दतोऽतिबुभुक्षया । लब्धं कथञ्चिदन्नादि पुत्रस्य न ददौ पिता ॥ २८ ॥ विक्रीणीते स्म चणकप्रसृत्या निजबालकम् । माता भ्रमन्ती रथ्यासु शूर्पादि श्वपेची यथा ॥ २९ ॥ प्रातरीश्वरहाणां पतितानङ्गणे कणान् । वराकाश्चिक्यिरे रक्षा गृहपारापता इव ॥३०॥ अपि कादम्बिकादीनामापणेषु मुहुर्मुहुः । लब्ध्वा छलं श्वान इव भोज्यमाचिच्छिदुर्जनाः ।।३१ ।। अप्यहः सकलं भ्रान्त्वा कथञ्चिदहरत्यये । ग्रासमात्रमपि प्राप्य मुदितं मेनिरे नराः ।।३२ ।। रकै करङ्कसङ्काशैलुंठितैरतिभीषणैः । स्मशानादत्यरिच्यन्त पुरराजपथा अपि ॥ ३३ ॥ रज़रोलैरविरलैः प्रसरद्भिः पदे पदे । अदूयन्त सतां कर्णाः क्षिप्ताभिरिव सूचिभिः ॥ ३४ ॥ कल्पान्तकल्पे दुष्काले तस्मिन् सङ्घ चतुर्विधम् । क्षीयमाणं नृपः प्रेक्ष्य दध्याविति महामनाः ॥३५ ॥ इयं खलु धरित्री मे त्रातव्या सकलापि हि । किं करोमि परं ? पापः कालोऽयं नास्त्रंगोचरः ।।३६ ॥ तथाप्यवश्यं त्रातव्यः सोऽयमखिलोऽपि हि । पात्रोपकारे प्रथमं महतां यदुपक्रमः ।।३७ ॥ १ अर्धांजलिना । २ शूर्प वंशपात्रम् । ३ चांडाली । ४ दीनाः । ५ हट्टेषु । ६ दिनांते । ७ अस्थिपंजरसदृशैः । ८ कोलाहलैः "रडारड” इति भाषायां । ९ कल्पांतसद्दशे । १० अस्त्रविषयः । * नगरवासिनो देशवासिनश्च । भिक्षाया।
सम्भवजिनस्य पूर्वभवः ।
॥३॥