________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ २१२ ॥
FREDERERERERERERERERERERERY
संसारगर्तपतनादनेकक्लेशसङ्कलात् । रक्ष रक्ष जगन्नाथ!, दीक्षां देहि प्रसीद मे ॥ ६३५ ॥ संसारसुखमूढेन, मयाऽऽयुरियैदात्मनः । निष्फलं क्षपितं स्वामिन्!, बालेनेवाऽविवेकिना ॥ ६३६ ॥ विज्ञाप्यैवं तस्थिवांसं, सगरं रचिताञ्जलिम् । भगवानप्यनुजज्ञे, दीक्षाग्रहणकर्मणि ॥ ६३७ ॥ अथोत्थाय नमस्कृत्य, भगवन्तं भगीरथः । एवमभ्यर्थयाञ्चक्रेऽभ्यर्थनाकल्पभूरुहम् ॥ ६३८ ॥ दीक्षां दास्यन्ति तातस्य, स्वामिपादाः परं क्षणम् । प्रतीक्षणीयं कुर्वेऽहं यावन्निष्क्रमणोत्सवम् ॥ ६३९ ॥ काऽप्यपेक्षा मुमुक्षूणां न यद्यप्युत्सवादिषु । तथापि मेऽनुरोधेन, तातोऽप्येवं करिष्यति ॥ ६४० ॥ ततस्तदनुरोधेन, सगरोऽत्युत्सुकोऽपि सन् । जगाम नगरीं भूयः, प्रणिपत्य जगद्गुरुम् ॥ ६४१ ॥ सिंहासननिषण्णस्य, सगरस्य भगीरथः । दीक्षाभिषेकमकरोत्, पुरुहूत इवाऽर्हतः ॥ ६४२ ॥
उन्मृष्टो गन्धकाषाय्या, लिप्तो गोशीर्षचन्दनैः । मङ्गल्ये पर्यधत्ताऽथ, सगरो दिव्यवाससी ॥ ६४३ ॥ ततो देवोपनीतानि, दिव्यालङ्करणानि च । अलञ्चक्रे शरीरेण, गुणालङ्करणोऽपि सः ॥ ६४४ ॥ यथाकाममथाऽर्थिभ्यः, प्रदाय सगरो वसु । शिबिकामारुरोहोच्चैर्विशदच्छत्र-चामरः ॥ ६४५ ॥ प्रत्यापणं प्रतिगृहं, प्रतिरथ्यं च नागरैः । नगर्यां विदधे मञ्च पताका-तोरणादिकम् ॥ ६४६ ॥ स्थाने स्थाने नागरैश्च, जनैर्जानपदैरपि । पूर्णपात्रादिना हर्षात्, प्रकृतानेकमङ्गलः ॥ ६४७ ॥ पुनः पुनः प्रेक्ष्यमाणः स्तूयमानः पुनः पुनः । पुनः पुनः पूज्यमानोऽन्वीयमानः पुनः पुनः ॥ ६४८ ॥
१ एतावदायुष्यम् । २ अनुज्ञां ददौ ३ प्रार्थनापूरणे कल्पवृक्षसदृशम् । ४ आग्रहेण ।
'RERERERERERERERERERERERERY
द्वितीयं पर्व
षष्ठः सर्गः अजित
सगर
चरितम् ।
सगरस्य प्रव्रज्या ।
॥ २१२ ॥