________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २११ ॥
FRYRERERE
REDERE RE
समं भगीरथेनाऽथ, सामन्तादिभिरावृतः । ययौ समवसरणं, सगरो गुरुसम्भ्रमः ॥ ६२० ॥ उत्तरद्वारमार्गेण, तत्र च प्रविवेश सः । प्रविष्टमानी हर्षेण, सिद्धिक्षेत्र इवोच्चकैः ॥ ६२१ ॥ तत्र प्रदक्षिणीचक्रे, त्रिश्चक्री धर्मचक्रिणम् । नमस्कृत्य पुरोभूय, स्तोतुं चेति प्रचक्रमे ॥ ६२२ ॥ मत्प्रैसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योऽन्याश्रयं भिद्धि, प्रसीद भगवन्! मयि ॥ ६२३ ॥ निरीक्षितुं रूपलक्ष्मीं, सहस्राक्षोऽपि न क्षमः । स्वामिन्! सहस्रजिह्वोऽपि शक्तो वक्तुं न ते गुणान् ॥ ६२४॥ संशयान् नाथ! हरसेऽनुत्तरस्वर्गिणामपि । अतः परोऽपि किं कोऽपि, गुणः स्तुत्योऽस्ति वस्तुतः ? ॥ ६२५ ॥ इदं विरुद्धं श्रद्धत्तां, कथमश्रद्दधानकः ? | आनन्दसुखश( स ) क्तिश्च, विरक्तिश्च समं त्वयि ।। ६२६ ॥ नाथेयं घट्यमानाऽपि, दुर्घटा घटतां कथम् ? । उपेक्षा सर्वसत्त्वेषु, परमा चोपकारिता ॥ ६२७ ॥
द्वयं विरुद्धं भगवंस्तव नाऽन्यस्य कस्यचित् । निर्ग्रन्थता परा या च, या चोच्चैश्चक्रवर्तिता ॥ ६२८ ॥ नारका अपि मोदन्ते, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? ॥ ६२९ ॥ शोऽद्भुतोऽद्भुतं रूपं, सर्वात्मसु कृपाऽद्भुता । सर्वाद्भुतनिधीशाय तुभ्यं भगवते नमः ॥ ६३० ॥ इति स्तुत्वा जगन्नाथं, यथास्थानं निषद्य च । सुधानिस्यन्दसध्रीचीं, सोऽश्रौषीद् धर्मदेशनाम् ॥ ६३१ ॥ देशनान्ते च सगरो, नमस्कृत्य पुनः प्रभुम् । रचिताञ्जलिरित्यूचे, गद्गदाक्षरया गिरा ॥ ६३२ ॥ न स्वो न च परः कोऽपि, तीर्थेश ! तव यद्यपि । तथाप्यज्ञानतो नाथ!, मया पर्यनुयुज्यसे ॥ ६३३ ॥ विश्वमप्युत्तारयसि, भवाम्भोधेर्दुरुत्तरात् । नाथ! तत्र निमज्जन्तं, कथं मां त्वमुपेक्षसे ? ॥ ६३४ ॥
१ महाहर्षः । २ आत्मानं प्रविष्टं मन्यते । ३ अजितस्वामिनम् । ४ मम प्रसन्नतायाः । ५ मम प्रसन्नता । ६ इन्द्रोऽपि ।
FREDERLAGAGAGAUDEREREREDERE
द्वितीयं पर्व
षष्ठः सर्गः अजित
सगर
चरितम् ।
सगरस्य प्रवज्या ।
।। २११ ।।