________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २१० ॥
CREDERERERE
CRE DE REN
आज्ञां कृत्वाऽभ्युपेतं तं, प्रणमन्तं पितामहः । मुहुः शिरसि जघ्रौ च पृष्ठेऽस्प्राक्षीच्च पाणिना । ६०५ ॥ भगीरथमथोवाच, सगरः स्नेहगौरवात्, बालोऽप्यसि वयो- बुद्धिस्थविराणां त्वमग्रणीः ॥ ६०६ ॥ बालोऽस्मीति स्म मा वादी, राज्यभारं गृहाण नः । तरामो येन निर्भाराः सन्तः संसारसागरम् ॥ ६०७ ॥ भ॑वः स्वयम्भूरमणाब्धिवद् यद्यपि दुस्तरः । तीर्णस्तथापि मत्पूर्वैरिति श्रद्धा ममाऽप्यभूत् ॥ ६०८ ॥ वत्स! तेषामप्यपत्यै, राज्यभार उपाददे । ततस्तद्दर्शितः पन्थाः, पाल्यतां ध्रियतां मही ॥ ६०९ ॥ नत्वा भगीरथोऽप्येवमभाषत पितामहम् । युक्तमादित्सते तातः, प्रव्रज्यां भवतारणीम् ॥ ६१० ॥ स्वामिन्! व्रतायाऽयमपि, जनः किन्तूत्सुकायते । राज्यदानप्रसादेनाऽप्रसादं मा कृथास्ततः ॥ ६११ ॥ चक्रवर्त्यप्युवाचैवं युक्तमस्मत्कुले व्रतम् । ततोऽपि किन्त्वभ्यधिकं, गुर्वाज्ञापालनव्रतम् ॥ ६१२ ॥ गृह्णीयाः समये मद्वत्, परिव्रज्यां महाशय ! । स्वापत्ये कवचहरे, निदधीथाश्च मेदिनीम् ॥ ६१३ ॥ श्रुत्वा भगीरथोऽप्येवं, गुर्वाज्ञाभङ्गकातरः । भवभीरुश्च मौन्यस्थाद्, दोलायितमनाश्चिरम् ॥ ६१४ ॥ ततः सिंहासने स्वस्मिन्नुपवेश्य भगीरथम् । राज्येऽभ्यषिञ्चत् सगरस्तदैव परया मुदा ।। ६१५ ॥ तदान चक्रिणोऽभ्येत्य शीघ्रमुद्यानपालकाः । शशंसुः समवसृतं, बाह्योद्यानेऽऽजितप्रभुम् ॥ ६१६ ॥ पौत्रराज्याभिषेकेणाऽजितस्वाम्यागमेन च । तदानीं चक्रिणो जज्ञे, हर्षोत्कर्षो यथोत्तरम् ॥ ६१७ ॥ तत्रस्थोऽपि स उत्थाय, नमश्चक्रे जगत्पतिम् । पुरःस्थमिव च शक्रस्तवेनोच्चैरवन्दत ॥ ६१८ ॥ तेषामुद्यानपालानां, स्वाम्यागमनशंसिनाम् । ददौ चक्री हिरण्यस्य, कोटीरर्धत्रयोदश ॥ ६१९ ॥ १ अस्पृशत् । २ संसारः । ३ ग्रहीतुमिच्छति ।
FREREREREREREREREREREREDERI
द्वितीयं पर्व
षष्ठः सर्गः
अजित
सगर
चरितम् ।
सगरस्य
प्रव्रज्या ।
॥। २१० ॥