________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व
षष्ठः सर्गः अजितसगरचरितम् ।
॥२१३ ॥
282828282828282828282828282
|| विनीतामध्यतश्चक्री, धुमध्येनेव चन्द्रमाः । भृशायमानोऽपि जनोपरोधाच्छनकैर्ययौ ॥६४९ ॥
॥त्रिभिर्विशेषकम् ॥ भगीरथेन सामन्तैरमात्यैः सपरिच्छदैः । खेचरैश्चाऽन्वीयमानः, सगरोऽगाज्जिनान्तिकम् ॥६५०॥ तत्र प्रदक्षिणीकृत्य, भगवन्तं प्रणम्य च । भगीरथोपनीतं स, यतिवेषमुपाददे ॥ ६५१॥ | समक्षं सर्वसङ्गस्य, स्वामिवाचनयोच्चकैः । पठन् सामायिकं दीक्षां, चतुर्यामां स आददे ॥६५२॥ कुमारैः सह ये जग्मुर्नप-सामन्त-मन्त्रिणः । सगरेण समं तेऽपि, भवोद्विग्नाः प्रवव्रजः ॥६५३ ॥ चक्रे चक्रिमुनेस्तस्य, मनःकुमुदकौमुदीम् । अनुशिष्टिमयी धर्मदेशनां धर्मसारथिः ॥६५४ ॥ पूर्णायामथ पौरुष्यां, देशनां विससर्ज ताम् । देवच्छन्दमलञ्चक्रे, ततश्चोत्थाय तीर्थकृत् ।। ६५५ ॥ स्वाम्यज्रिपीठमध्यास्य, चक्रे गणधराग्रणीः । स्वामिप्रभावात् स्वामीव, देशनां संशयच्छिदम् ॥६५६ ॥ द्वितीयस्यां च पौरुष्यां, पूर्णायां सोऽपि देशनाम् । संवरो स्तनितमिव, प्रवृष्टः प्रावृडम्बुदः ॥६५७॥ ततः स्थानादथाऽन्यत्र, विहर्तुं प्राचलत् प्रभुः । देवा भगीरथाद्याश्च, स्थानं निजनिजं ययुः ॥६५८ ॥ विहरन् स्वामिना सार्धं, सगरोऽपि महामुनिः । अध्यैष्ट द्वादशाङ्गानि, मातृकामिव लीलया ॥६५९ ॥ | स पञ्च समितीस्तिस्रो, गुप्तीश्चारित्रमातृकाः । सम्यगाराधयामास, प्रमादरहितः सदा ॥६६०॥ स नित्यं भगवत्पादशुश्रूषोद्भूतया मुदा । परीषहभवं क्लेशं, न विवेद मनागपि ॥६६१॥ त्रैलोक्यचक्रिणो भ्राता, चक्रयस्मि स्वयमित्यपि । नाऽहञ्चक्रे किन्तु चक्रे, विनयं संयतेषु सः ॥६६२॥
१ गगनमध्येन । २ अजितप्रभुः। ३ द्वादशाक्षरीवर्णानिव। ४ न अहङ्कारं चकार । ५ मुनिषु ।
128282828282828282828282828
सगरस्य
प्रव्रज्या केवलज्ञानं च।
॥ २१३॥