________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २०२ ॥
FRERERE
CREDERERKRY
प्रद्योतनो द्योतयते, विश्वं प्रीणाति चोडुपः । काले वर्षति पर्जन्यः, प्रसूते भूमिरोषधीः ॥ ४८८ ॥ मर्यादां लङ्घते नाऽब्धिर्मेदिनी चाऽवतिष्ठते । परोपकारनिष्ठानां, प्रभावेण भवादृशाम् ॥ ४८९ ॥ न्यासीकृतं कलत्रं मे, तत् सम्प्रति समर्पय । महीनाथ! गमिष्यामि, स्वां क्रीडाभूमिकामहम् ॥ ४९० ॥ वैताढ्य - जगतीजालकटकादिषु सप्रियः । विहरिष्ये निराशङ्कस्त्वत्प्रसादाद्धतद्विषन् ॥ ४९१ ॥ आक्रान्तो युगपल्लज्जा-चिन्ता - निर्वेद - विस्मयैः । एवं वसुमतीनाथः, पुरुषं तमभाषत ॥ ४९२ ॥ न्यासीकृत्य कलत्रं स्वं तदानीं त्वयि जग्मुषि । अम्बरे शुश्रुवेऽस्माभिः, क्ष्वेडा - ऽसि - फलकध्वनिः ॥४९३॥ बाहु-पाद- शिरोरुण्डं चाऽपतन्नभसः क्रमात् । मत्पतेरिदमित्युच्चैस्त्वत्पल्यकथयच्च नः ॥ ४९४ ॥ पत्युरङ्गैः समं वह्नौ, प्रवेक्ष्यामीति भाषिणीम् । अवारयाम सुचिरं पुत्रीप्रेम्णा तव प्रियाम् ॥ ४९५ ॥ वह्निप्रवेशादस्माभिर्वार्यमाणा तु ते प्रिया । अस्मान् सम्भावयामासाऽन्यथैवेतरलोकवत् ॥ ४९६ ॥ तूष्णीकेषु ततोऽस्मासु, सा साहसवती नदीम् । गत्वा लोकसमक्षं तैः सहाऽङ्गैः प्राविशच्चिताम् ॥ ४९७ ॥ अधुनैव निवापादि, तस्याः कृत्वाऽहमागमम् । तस्यां शोके न्यषीदं च त्वं चाऽगाः किमिदं ननु? ॥ ४९८ ॥ तान्यङ्गानि न किं ते वा? स वा त्वं नेति संशयः । अज्ञानमुद्रितमुखाः किमिह ब्रूमहे वयम्? ॥ ४९९ ॥ | व्याजहार कृतंव्याजकोपः सोऽपि पुमानिति । परस्त्रीसोदरो मिथ्या, जनश्रुत्या श्रुतोऽसि हा ! ॥ ५०० ॥ तेन नाम्ना वयं भ्रान्ताः, प्रियान्यासमकृष्महि । अयोवैत् पुष्करैर्ज्ञातस्त्वं वृत्तैरीदृशैरसि ॥ ५०१ ॥
"
१ सूर्यः । २ चन्द्रः । ३ विहितकपटक्रोधः । ४ लोहवत् ।
REREREREREREREREDEREREREDE
द्वितीयं पर्व तृतीयः सर्गः
अजित
सगर
चरितम् ।
सगरप्रतिबो
धाय द्वितीयमन्त्र्युक्तमपरमिन्द्रजालि
कोदाहरणम् ।
॥ २०२ ॥