________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
षष्ठः
सर्गः अजितसगरचरितम् ।
॥२०३ ॥
RERURURURYRERERERURERER828.
दुराचारस्य यत् कृत्यं, तस्य महिवषतोऽभवत् । तच्चक्रे भवता राजन्!, द्वयोर्हन्त! किमन्तरम्? ॥५०२॥ नारीष्वलुब्धमन्यश्चेदपवादाद् बिभेषि वा । तदर्पय प्रियां तां मे, न हि निह्रोतुमर्हसि ॥५०३ ॥ अलुब्धपूर्वा लुभ्यन्ति, यद्येवं त्वादृशा अपि । ततः कृष्णोरग इव, कोऽस्तु विश्वासभाजनम्? ॥५०४ ॥ भूयो बभाषे भूपालस्तवाङ्गान्युपलक्ष्य सा । त्वत्प्रेयस्यविशद् वह्निमत्र तावन्न संशयः ॥५०५ ॥ अत्राऽर्थे साक्षिणः सर्वे, पौरा जानपदा अपि । जगच्चक्षुरयं व्योम्नि, भगवांश्च दिवाकरः ॥५०६ ॥ लोकपालाश्च चत्वारो, ग्रह-नक्षत्र-तारकाः । इयं च भगवत्युर्वी, धर्मश्च त्रिजगत्पिता ॥५०७॥ तन्न भाषितुमीदृक्षं, रूक्षाक्षरमिहाऽर्हसि । अमीषां मध्यतः कञ्चित्, प्रमाणीकुरु साक्षिणम् ॥५०८ ॥ अलीकरोषपरुषं, पुरुषः सोऽवदत् पुनः । न हि प्रमाणे प्रत्यक्षे, प्रमाणान्तरकल्पना ॥५०९॥ तव पश्चादियं का नु, स्थिताऽस्ति? प्रेक्ष्यतां ननु । कक्षाप्रक्षिप्तलोप्नस्य, कोशपानमिदं नृप! ॥५१०॥ ततश्च वलितग्रीवो, यावत् पश्चाद्ददौ दृशम् । ईक्षाञ्चक्रे नृपस्तावत्, तत्प्रियां तां निषेदुषीम् ॥५११ ॥ पारदारिकदोषेण, दूषितोऽस्मीति शङ्कया । ग्लानिं प्रपेदे नृपतिर्लानिं तापेन पुष्पवत् ॥५१२ ॥ नृपं ग्लानिं प्रपेदानं, निर्दोषं दोषशङ्कया । बद्धाञ्जलिः कथयितुं, प्रारेभे स पुमानिति ॥५१३ ॥ कच्चित् स्मरसि भूनाथ!, चिरेणाभ्यस्य यन्मया । मायाप्रयोगचातुर्य, त्वं दर्शयितुमर्थितः? ॥५१४ ॥ देवेन मेघवद् विश्वसाधारण्यजुषाऽप्यहम् । भाग्यदोषादपूर्णेच्छो, द्वारादपि निवारितः ॥५१५ ॥ ततो रूपं परावर्त्य, कृत्वा कपटनाटकम् । मयेदं दर्शितं देव!, कृतार्थोऽस्मि प्रसीद मे ॥५१६ ॥
१ कृत्रिमकोपकठोरम् । २ लोप्वम् स्तेयधनम् ।
28282828288888888888888888
सगरप्रतिबोधाय द्वितीयमन्त्र्युक्तमपरमिन्द्रजालिकोदाहरणम्।
॥२०३॥