________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः अजितसगरचरितम् ।
॥२०१॥
282828282828282828282828288
दिष्ट्या दृष्टोऽसि दोईप्त!, प्रहर प्रहरादितः । कौतुकं पूरयाम्यद्य, स्वदोष्णोर्युसदामपि ॥ ४७४॥ नो वा शस्त्रं परित्यज्याऽऽदाय दन्तैर्दशाङ्गलीः । भक्ष्यं रङ्क इवाऽशङ्को, व्रज जीवितकाम्यया ॥ ४७५ ॥ साक्षेपमिति जल्पन्तौ, द्वावप्यावां परस्परम् । चर्मा-ऽसिपक्षौ धुन्वन्तौ, मिलितौ कुक्कुटाविव ॥ ४७६ ॥
॥त्रिभिविशेषकम ॥ &चारीप्रचारचतुरौ, रङ्गाचार्याविवाम्बरे । प्रहारान् वञ्चयमानौ, व्यचराव चिरं नृप! ॥ ४७७ ॥
आवाभ्यां खड्गशृङ्गेण, प्रहरट्यां मुहर्महः । खड्गिभ्यामिव विहिते, अभिसर्पा-ऽपसर्पणे ॥ ४७८ ॥ क्षणेनाऽपि मया तस्य, दोर्दण्डो दक्षिणेतरः । निकृत्य पातितो राजन्!, प्रवर्धक इवेह ते ॥ ४७९ ॥ युष्मदानन्दहेतोश्च, कदलीस्तम्भलीलया । मया निकृत्य तस्यैकश्चरण- पातितो भुवि ॥ ४८०॥ दक्षिणोऽपि भुजस्तस्य, नलिनीनाललीलया । विलूय क्षितिपृष्ठेऽस्मिन्, क्षिप्तः क्षितिपते! मया ॥ ४८१॥ | ततो द्वितीयस्तस्याशीर िपस्य प्रकाण्डवत् । खड्गदण्डेन निष्कृत्य, तवाऽग्रे परिपातितः ॥ ४८२ ॥ ततो रुण्डश्च मुण्डश्च, पृथक् कृत्वेह पातितः । तमित्यकाष षट्खण्डं, रिपुं भरतवर्षवत् ॥ ४८३ ॥ कलत्रं त्रायमाणेन, न्यासीभूतमपत्यवत् । त्वयैव सोऽरिनिहतो, हेतुमात्रमहं त्विह ॥ ४८४ ॥ | त्वत्साहाय्यं विना सोऽरिन हन्तुं शक्यते मया । नाऽलं दग्धं कक्षमग्निविना वायं ज्वलन्नपि ॥ ४८५ ॥ इयत्कालमहं स्त्री वाऽथवाऽभूवं नपुंसकः । पुंस्त्वं मेऽद्य त्वया दत्तं, द्विषन्निग्रहहेतुना ॥ ४८६ ॥ | ममाऽसि माता तातो वा, गुरुर्वा देवताऽथवा । एवंविधोपकारी हि, नाऽन्यो भवितुमर्हति ॥ ४८७॥
१ गण्डकाभ्याम्। २ अभिगमनं दूरगमनं च। ३ वृक्षस्य ।
282828282828282828282828286
सगरप्रतिबोधाय द्वितीयमन्त्र्युक्तमपरमिन्द्रजालिकोदाहरणम्।
॥२०१॥