________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ २०० ॥
KRURUDURERERERERERERERERERY
अन्वीयमाना न्यग्ग्रीवं सशोकेन महीभुजा । साश्चर्यैर्वीक्ष्यमाणा च पौरैः सा सरितं ययौ ॥ ४६० ॥ आजह्रुश्चन्दनैधांसि, तत्राऽऽयुक्ताः क्षणादपि । चितां च रचयाञ्चक्रुस्तल्पं पितृपतेरिव ॥ ४६१ ॥ पित्रेव पृथिवीशेन, तेन सम्पूरितं वसु । याचकेभ्यो यथाकामं, ददौ कल्पलतेव सा ॥ ४६२ ॥ पयःपूर्णाञ्जलिपुटा, तत्र त्रिः साऽऽशुशुक्षणिम् । चक्रे प्रदक्षिणं जातदक्षिणावर्त्तरोचिषम् ॥ ४६३ ॥ सतीसत्यापनां कृत्वा, पत्युरङ्गैः सहैव तैः । वासागार इव स्वैरं, चितान्तः प्रविवेश सा ॥ ४६४ ॥ प्राज्याभिराज्यधाराभिराहुतोऽथ हुताशनः । जज्वालाऽभ्यधिकं ज्वालाजालपल्लविताम्बरः ॥ ४६५ ॥ तानि विद्याधराङ्गानि सा चैधांसि च तत्क्षणम् । अभवद् भस्मसात् सर्वं जलं लवणसादिव ॥ ४६६ ॥ तत्र तस्या निवापादि, कृत्वा शोकसमाकुलः । आजगाम निजं धाम, ततः स जगतीपतिः ॥ ४६७ ॥ यावत् सशोकः परिषद्यासाञ्चक्रे महीपतिः । आययौ स पुमांस्तावन्नभस्तः फलका - ऽसिभृत् ॥ ४६८ ॥ भूभुजा पारिषद्यैश्च वीक्ष्यमाणः सविस्मयम् । मायाविद्याधरः सोऽथ, पुरोभूयेदमब्रवीत् ॥ ४६९ ॥ दिष्ट्या प्रवर्द्धसे देव! परस्त्री-धननिःस्पृह ! । दुरोदर इव द्वन्द्वे, यथाऽजैषं तथा शृणु ॥ ४७० ॥ तदा ह्यहमितः स्थानाच्छरण्य ! शरणे तव । विमुच्य दारान् निर्भर इवोदपतमम्बरे ॥ ४७१ ॥ समापतन्तं साटोपं, तमपश्यं नभस्तले । दुष्टविद्याधरमहं, रुष्टो बभ्रुरिवोरगम् ॥ ४७२ ॥ ऋषभाविव गर्जन्तावूर्जितं दुर्जयावुभौ । अहं च स च युद्धार्थमाह्वास्वहि परस्परम् ॥ ४७३ ॥
१ नम्रकन्धरं यथा स्यात् तथा । २ शय्याम् । ३ यमस्य । ४ अग्निम् । ५ सतीत्वसत्यतां समर्थ्य । ६ घृतधाराभिः । ७ लवणाधीनम् । ८ द्यूते। ९ नकुलः ।
FREREREREREREREREREREREREREI
द्वितीयं पर्व
षष्ठः सर्गः
अजित
सगर
चरितम् ।
सगरप्रतिबो
धाय द्वितीयमन्त्र्युक्तमपरमिन्द्रजालि
कोदाहरणम् ।
॥ २०० ॥