________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः
॥१९७॥
अजितसगरचरितम् ।
282828282828282828282828282
विचित्रखड्ग-फलकप्रहारध्वनितान्यपि । तडत्तडितिविस्फूर्जत्तडित्ताडानिवाऽशृणोत् ॥ ४१६ ॥ सोऽसि सोऽसि नासि नासि, तिष्ठ तिष्ठ व्रज व्रत । एष त्वां हन्मि हन्मीति, व्योम्नि शुश्रुविरे गिरः॥४१७ ॥ नृपतिः पर्षदासीनः, पार्षद्यैः सह विस्मितः । उपरागेक्षण इव, तस्थौ सुचिरमुन्मुखः ॥ ४१८ ॥ इत्थं सम्पश्यमानस्य, भूपतेः पुरतो भुवि । भुजदण्डः पपातैको, रत्नकङ्कणभूषणः ॥ ४१९ ॥ उपलक्षयितुं तं च, बाहुदण्डं दिवश्च्युतम् । विद्याधरी पुरोभूय, साऽपश्यच्च जगाद च ॥ ४२०॥ गण्डयोरुपधानत्वं, कर्णयोरवतंसताम् । कण्ठे च निष्कतां योऽगात्, सोऽयं मत्प्रेयसो भुजः ॥ ४२१॥ एवं वदन्त्यां पश्यन्त्यामेव तस्यां मृगीदृशि । भुवि पादः पपातैको, दोष्णः प्रीत्येव तस्य तु ॥ ४२२ ॥ सपादकटकं पादमुपलक्ष्य तमप्यथ । उदश्रुवदना पद्मवदना साऽवदत् पुनः ॥ ४२३ ॥ चिरमभ्यक्त उन्मृष्टः, क्षालितोऽथ विलेपितः । स्वहस्तेन मया यो हि, स पादो मत्पतेरयम् ॥ ४२४ ॥ एवं तस्या ब्रुवाणायाः, पुरो गीर्वाणवर्त्मनः । वातोद्भूतद्रुशाखेव, द्वितीयोऽपि भुजोऽपतत् ॥ ४२५ ॥ तमप्यालोक्य दोर्दण्डं, रत्नकेयूर-कङ्कणम् । सोवाच स्पन्दमानाक्षी, धारायन्त्रवधूरिव ॥ ४२६ ॥ सोऽयं सीमन्तरचनाचतुरः केशकङ्कतः । विचित्रपत्रलतिकालीलालिपिकरः करः ॥ ४२७ ॥ तस्यास्तत्रैव तिष्ठन्त्या, एवाऽग्रे गगनाङ्गणात् । पपाताङ्घिर्द्वितीयोऽपि, साऽपि भूयोऽब्रवीदिदम् ॥ ४२८ ॥ स एष मत्पतेः पादो, मत्कराम्भोजलालितः । अनारतं मदुत्सङ्गशय्यादुर्ललितो हहा! ॥ ४२९ ॥ अथ तत्रैव तत्कालं, मुण्ड-रुण्डौ निपेततुः । हदयेन समं तस्याः, कम्पयन्तौ महीतलम् ॥ ४३०॥
१ उपरागे ग्रहणे ईक्षणे नेत्रे यस्य सः । २ हृदयाभूषणम् । ३ करस्य । ४ आकाशात् । ५ केशप्रसाधनसाधनम् । ६ शीर्षकबन्धौ ।
282828282828282828282828286
सगरप्रतिबोधाय द्वितीयमन्त्र्युक्तमपरमिन्द्रजालिकोदाहरणम्।