________________
त्रिषष्टि
शलाका
पुरुषचरि
॥। १९६ ॥
FREREAGRERERER
CRE DE DE DE DE
कल्पद्रुरिव पत्राणि, रत्नाकर इवोदकम् । कामधेनुरिव क्षीरं, रोहणाद्रिरिवोपलम् ॥ ४०१ ॥ अन्नमात्रमिव श्रीदश्छायामात्रमिवाऽम्बुदः । दूरादुपेत्य भवता, कियदस्मीदमर्थितः ॥ ४०२ ॥ युग्मम् ॥ तमेव दर्शय निजं, रिपुं येन निहन्म्यहम् । निर्विशङ्कं ततो भोगान्, भुङ्क्ष्व मङ्घ विचक्षण! ॥ ४०३ ॥ नृपवागमृताप्लावपूर्ण श्रवणकोटरः । मुदितः पुरुषः सोऽपि, जगादेति महीपतिम् ॥ ४०४ ॥ रजतं जातरूपं च, समस्ता रत्नजातयः । पितरो मातरः पुत्राः, सर्वं चाऽन्यद् गृहादिकम् ॥ ४०५ ॥ विश्वासेनाऽल्पकेनाऽपि न्यासेऽर्पयितुमीश्यते । विश्वासेनाऽपि महता, न पुनः प्रेयसी क्वचित् ॥ ४०६॥ राजन्नीदृशविश्वासस्थानं त्वमसि नाऽपरः । चन्दनास्पदमेको हि, मलयः सानुमानिह ॥ ४०७ ॥ बिभ्राणेन त्वया न्यासे, मदीयां प्रेयसीमिमाम् । त्वयैव निहतो मन्ये, द्विषन्तप ! स मे द्विषन् ॥ ४०८ ॥ भार्यान्यासे त्वयोपात्ते, त्वद्विश्वाससमाहितः । विश्वस्तभार्यान् द्विषतः, करिष्याम्यधुना ननु ॥ ४०९ ॥ क्षोणीनाथ! तवाऽत्रैव, तिष्ठतो नचिरादहम् । केसरीव समुत्पत्य, दर्शयिष्यामि विक्रमम् ॥ ४१० ॥ अनुमन्यस्व गच्छामि, स्वच्छन्दं पक्षिराडिव । एषोऽहमन्तरिक्षेण, क्षणादस्खलितस्यदः ॥ ४११ ॥ राजाऽप्यूचे व्रज स्वैरं, विद्याधर ! महाभट ! । तिष्ठत्वेषा तु ते भार्या, मद्धाग्नि पितृधामवत् ॥ ४१२ ॥ अथोत्पपात स पुमान्, विहायोवद् विहायसा । निस्त्रिंशदण्ड- फलके, पक्षाविव विजृम्भयन् ॥ ४१३ ॥ तद्भार्या तु स्वदुहितृप्रतिपत्तिपुरःसरम् । राज्ञा सम्भाषिता तस्थौ, तत्रैव स्वस्थमानसा ॥ ४१४ ॥ तत्रैव तिष्ठन् नृपतिर्जायमानां नभस्तले । क्ष्वेडामाकर्णयामास, स्तनितं वार्मुचामिव ॥ ४१५ ॥
१ सद्यः । २ गरुड इव । ३ वेगः । ४ पक्षिवत् । ५ मेघानामिव ।
CREDEREREREDERERERERERERERY:
द्वितीयं पर्व
षष्ठः सर्गः अजित
सगर
चरितम् ।
सगरप्रतिबो
धाय द्वितीयमन्त्र्युक्तमपरमिन्द्रजालि
कोदाहरणम् ।
।। १९६ ॥