________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः
॥१९५ ॥
अजितसगरचरितम् ।
888888888888888888888888888
असि कस्त्वमियं का च?, हेतुना केन चाऽऽगमः? । इति राज्ञा स्वयं पृष्टः, स पुमानब्रवीदिति ॥ ३८६ ॥ अहं विद्याधरो विद्याधरी चेयं मम प्रिया । विद्याधरेण केनाऽपि, जातवैरोऽस्मि भूपते! ॥३८७ ॥ इयं हि पूर्वं तेन स्त्रीलम्पटेन दुरात्मना । सुधा विधुन्तुदेनेवाऽपहृता च्छलकर्मणा ॥ ३८८ ॥ प्रत्याहार्षमहं तस्मादिमां प्राणप्रियां प्रियाम् । नारीपरिभवं राजन्!, सहन्ते पशवोऽपि न ॥ ३८९॥ चरितार्थौ प्रचण्डौ ते, दोर्दण्डौ क्षितिधारणात् । अर्थिनां दौस्थ्यघातेन, सम्पच्च सफला तव ॥ ३९० ॥ भीतानामभयदानात्, कृतार्थो विक्रमश्च ते । विदुषां संशयच्छेदादमोघा शास्त्रवैदुषी ॥३९१ ॥ विश्वस्य कण्टकोद्धारात्, फलवच्छस्त्रकौशलम् । अन्येऽप्यन्योपकारेण, कृतार्थास्ते पृथग्गुणाः ॥३९२ ॥ परस्त्रीसोदरत्वं च, तवेदं विश्वविश्रुतम् । अस्तु मय्युपकारेण, विशिष्टफलवन्नृप! ॥ ३९३ ॥ प्रियया पार्श्ववर्तिन्या, सन्दानित इवाऽनया । नाऽलम्भविष्णुर्योद्धं हि, परैश्छलपरैरहम् ॥३९४ ॥ नाऽहं हस्तिबलं याचे, याचे वाजिबलं न वा । न वा रथबलं याचे, याचे पत्तिबलं न वा ॥ ३९५ ॥ आत्मसाहायिके त्वत्तः, किन्तु याचे नराधिप! । एतस्या न्यासवत् त्राणं, परनारीसहोदर! ॥ ३९६ ॥ स्वयं स्त्रीलम्पटः कोऽपि, परित्राणसहोऽपि सन् । कोऽप्यस्त्रीलम्पटः स्वेन, परित्राणासहः परम् ॥३९७ ॥ त्वमस्त्रीलम्पटस्त्राणसहश्चाऽसि महीपते! । तेन दूरादुपेत्याऽपि, त्वमसि प्रार्थितो मया ॥३९८ ॥ अयं मत्प्रेयसीरूपो, न्यासश्चेत् स्वीकृतस्त्वया । ज्ञायतां हत एवाऽरिः, स मया बलवानपि ॥ ३९९ ॥ अथोल्लसस्मितज्योत्स्नापवित्रमुखचन्द्रमाः । उदारचरितः पृथ्वीपतिरेवमवोचत ॥ ४०० ॥
१ राहुणा। २ बद्ध इव। ३ शत्रुभिः ।
282828282828282828282828288
सगरप्रतिबोधाय द्वितीयमन्त्र्युक्तमपरमिन्द्रजालिकोदाहरणम्।
॥१९५ ॥