________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १९४ ॥
RE RE RI
अर्थे भूयस्यपि प्राप्ते, गुणार्जनभवः श्रमः । न याति गुणिनां किन्तु, गुणज्ञानेन गच्छति ॥ ३७१ ॥ अद्य नैमित्तिकीभूय, च्छलेनाऽप्यमुना मया । इन्द्रजालकलाभ्यासं, ज्ञापितोऽसि प्रसीद मे ॥ ३७२ ॥ सदस्या न्यक्कृतास्ते यच्चिरं यत् त्वं च मोहितः । राजन् ! सहस्व तत् सर्वं नाऽपराधोऽस्ति तत्त्वतः ॥३७३॥ इत्युदित्वा स्थिते तस्मिन् पार्थिवः परमार्थवित् । निजगादेति पीयूंषस्यन्दसोदरया गिरा ॥ ३७४ ॥ राजानं राजसभ्यांश्च, न्यक्कार्षमिति चेतसि । मा स्म भैषीरहो ! विप्रोपकारी परमोऽसि मे ॥ ३७५ ॥ इन्द्रजालमिदं ह्यद्य, दर्शयित्वा त्वया द्विज ! । तत्तुल्यमेतं संसारमसारं ज्ञापितोऽस्म्यहम् ॥ ३७६ ॥ दृष्टष्टमिदं यद्वत् त्वयाऽऽविर्भावितं जलम् । तद्वत् पदार्थाः सर्वेऽपि, संसारेऽद्यापि का रतिः ? ॥ ३७७ ॥ चिरमित्यादिसंसारदोषान् व्याहृत्य भूपतिः । कृतार्थीकृत्य तं विप्रं प्रव्रज्यामाददे स्वयम् ॥ ३७८ ॥ तदिन्द्रजालरूपोऽयं, भवोऽस्माभिरनूद्यते । प्रभो ! वेत्सि स्वयं हि त्वं, सर्वज्ञकुलचन्द्रमाः ॥ ३७९ ॥ वाचस्पतिमतिर्वाचा, शोकशल्यविशल्यया । इत्युवाच द्वितीयोऽपि मन्त्री नृपतिपुङ्गवम् ॥ ३८० ॥ इहैव भरतक्षेत्रे, कस्मिन्नपि पुरे पुरा । बभूव नृपतिः कोऽपि, विवेकादिगुणाकरः ॥ ३८१ ॥ तमास्थानस्थमन्येद्युः, पार्थिवं कोऽपि पूरुषः । मायाप्रयोगनिष्णं स्वं ज्ञापयामास वेत्रिणा ॥ ३८२ ॥ प्रवेशं नृपतिस्तस्य, नानुजज्ञे विशुद्धधीः । न मायिनामृजूनां चाऽजर्यं शाश्वतवैरिवत् ॥ ३८३ ॥ प्रतिषेधविलक्षः सन् स नीत्वाऽहानि कानिचित् । चक्रे रूपपरावर्तं, कामरूप इवाऽमरः ॥ ३८४ ॥ स तमेवाऽन्यदा भूपमुपतस्थे विहायसा । कृपाणपाणि: फलकी, वरनारीसमन्वितः ॥ ३८५ ॥
१ अमृतरससमानया । २ शोक एव शल्यं तदर्थं विशल्योषधितुल्यया । ३ नानुमेने । ४ मैत्री । ५ फलकधरः ।
CREDEREREREREREREDEREREDERE
द्वितीयं पर्व
षष्ठः सर्गः
अजित
सगर
चरितम् ।
सगरप्रतिबो
धाय द्वितीयमन्त्र्युक्तमपरमिन्द्रजालिकोदाहरणम् ।
॥ १९४ ॥