________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः अजितसगरचरितम् ।
॥१९३॥
28282828282828282828282828
मग्नस्य पत्तनस्याऽस्याऽवशेषः पृथिवीपते! । अतरीप इवाऽयं ते, प्रासादः प्रेक्ष्यतेऽधुना ॥ ३५६ ॥ अध्यारोहति सोपानवीथीषु च पयोऽस्खलत् । तव प्रसाददुर्मत्तमिव सेवक-राजकम् ॥३५७॥ पूरिता प्रथमा भूमिद्वितीयाऽप्यद्य पूर्यते । तामापूर्य तृतीयाऽपि, पूर्यते भूमिरम्भसा ॥ ३५८ ॥ चतुर्थी पञ्चमी षष्ठी, चाऽपि भूः पश्यतोऽपि हि । अहो! क्षणार्धमात्रेण, पूरिता वार्धिवारिभिः ॥ ३५९ ॥ विषवेगैरिवाऽम्भोभिराक्रान्तस्याऽस्य सद्मनः । शिरोगृहं शिर इव, शरीरस्याऽवशिष्यते ॥३६०॥ उपस्थितो युगान्तोऽयमुक्तपूर्वीदमस्म्यहम् । व ते सदस्यास्ते राजन्!, ये मां हसितपूर्विणः? ॥३६१॥ ततश्च विश्वसंहारशोकाद् राजाऽपि सत्वरम् । झम्पादानार्थमुत्थायाऽबध्नात् परिकरं दृढम् ॥ ३६२ ॥ प्लवङ्गम इवोत्पत्य, ददौ झम्पां महीपतिः । स्वं च सिंहासनासीनं, तं चाऽपश्यत् तथास्थितम् ॥ ३६३ ॥ ययौ च क्वचिदप्यम्भस्तदम्भोधेः क्षणादपि । तस्थौ च विस्मयस्मेरलोचनः स महीपतिः ॥ ३६४॥ अभग्नाभुग्नवृक्षाऽद्रि-प्राकार-भवनादिकम् । ईक्षाञ्चक्रे तथावस्थं, विश्वं विश्वम्भरापतिः ॥ ३६५॥ मायानैमित्तिकः सोऽपि, कट्यामाबध्य मर्दलम् । आस्फालयन् स्वपाणिभ्यां, पपाठेति ससम्मदः ॥ ३६६ ॥ इन्द्रजालप्रयोगादौ, नमामि चरणाम्बुजे । इन्द्रजालकलास्त्रष्टुर्वज्रिणः शम्बरस्य च ॥३६७॥ निजसिंहासनासीनस्ततः स पृथिवीपतिः । किमेतदिति साश्चर्यो, द्विजन्मानमभाषत ॥ ३६८ ॥ अवदद् ब्राह्मणोऽप्येवं, निःशेषाणां कलाविदाम् । गुणप्रकाशी राजेति, पुराऽस्मि त्वामुपस्थितः ॥ ३६९ ॥ इन्द्रजालं मतिभ्रंशकारीति न्यक्कृतस्त्वया । प्रदीयमानमप्यर्थमनादाय गतोऽस्मयहम् ॥ ३७० ॥
१ द्वीप इव। २ पूर्व हसितवन्तः । ३ अभुग्ना अनताः। ४ देवविशेषः । ५ तिरस्कृतः ।
28282828282828282828282828
सगरप्रतिबोधाय सुबुद्धिमन्त्र्युक्तं तान्त्रिकोदाहरणम्।
॥१९३॥