________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः अजितसगरचरितम् ।
॥१९२ ॥
182828282828282828RCR88888
यस्य वारिलवेनाऽपि, गृहीतेन घनाघनाः । प्लावयन्ति महीं सर्वां, पुष्करावर्तकादयः ॥३४१॥ स मर्यादां समुल्लङ्घय, स्वयं प्रचलितोऽधुना । अम्भोधिः प्लावयन्नुर्वीमवार्यः प्रेक्ष्यतामयम् ॥ ३४२ ॥ बिभर्ति गर्तान् मनाति, वृक्षान् स्थगयति स्थलीः । गिरीनप्यन्तरयति, दुर्वारो हन्त! वारिधिः ॥३४३ ॥ वायोर्वेश्मप्रवेशादि, ज्वलनस्य पुनर्जलम् । प्रतीकारोऽस्ति जलधेश्चलितस्य पुनर्न हि ॥३४४ ॥ इति ब्रुवाणं ब्रह्माणं, पश्यतस्तं महीपतेः । मृगतृष्णाम्बुवद् दूराद्, विष्वगाविरभूज्जलम् ॥३४५ ॥ सौप्तिकेनेव विश्वस्तं, विश्वं संहृतमब्धिना । हा हेत्याक्रोशिनो दीनाः, सर्वे ददृशुरुन्मुखाः ॥३४६ ॥ अथ राज्ञः पुरोभूय, सोऽङ्गल्या दर्शयन् द्विजः । प्लाव्यमानं प्लाव्यमानं, शशंसेती नशंसवत् ॥ ३४७ ॥ निरीक्षन्ताममी भो भोः!, सर्वे प्रत्यन्तपर्वताः । पिधीयन्ते पयोराशेः, पयोभिस्तिमिरैरिव ॥ ३४८ ॥ मन्ये प्रोन्मूलितान्यद्भिः, सर्वाण्यपि वनानि तु । दृश्यन्ते यत् तरन्तोऽमी, तरवो नक्रचक्रवत् ॥३४९॥ अधुना प्लावयत्युच्चैामा-ऽऽकर-पुरादिकम् । इदमभोनिधेरम्भो, धिगहो! भवितव्यता ॥ ३५० ॥ पुरीपरिसरोद्यानान्यपीदानीं निरर्गलैः । पिहितान्यम्बुधेस्तोयैः, पिशुनैरिव सद्गुणाः ॥ ३५१॥ प्राकारवलयेऽमुष्मिन्नालवाल इवाऽधुना । धुनीपतेर्ध्वनन्नीरमास्फलत्युच्चकैप! ॥ ३५२ ॥ अयमुल्लङ्घयते वप्रः, क्षिप्रं प्रसृमराम्भसा । रभसादश्ववारेणाऽश्व इवाऽतितरस्विना ॥ ३५३ ॥ पश्यैतत् पर्यते सर्वं, सप्रासादं समन्दिरम् । अम्भोधेरेवमम्भोभिः, प्रचण्डैः कुण्डवत् पुरम् ॥३५४ ॥ वेश्मद्वारे तवेदानीमश्वसैन्यमिवोल्ललत् । शब्दायमानमुद्दाम, देवाऽऽपतति वार्यदः ॥ ३५५ ॥
१ रात्रियुद्धेन । २ वारिभिः । ३ समुद्रस्य । ४ अतिवेगवता।
282828282828282828282828282
सगरप्रतिबोधाय सुबुद्धिमन्त्र्युक्तं तान्त्रिकोदाहरणम्।
॥१९२॥