________________
त्रिषष्टि
द्वितीयं पर्व
शलाकापुरुषचरिते
सर्गः
॥१९१॥
अजितसगरचरितम् ।
282828282828282828282828282
चन्द्रशालास्थितो राजा, सप्तमेऽहन्युवाच तम् । पूर्णोऽवधिस्त्वदीयस्य, वचसो जीवितस्य च ॥ ३२६ ॥ प्रलयाय त्वयाऽऽख्यातः, समुद्भान्तो महार्णवः । स दूरे तावदद्याऽपि, जललेशोऽपि नेक्ष्यते ॥ ३२७ ॥ सर्वप्रलयशंसित्वात्, तव सर्वोऽपि वैर्यहो! । अनृतायां प्रतिज्ञायां, निग्रहाय यतिष्यते ॥ ३२८ ॥ भवता जन्तुमात्रेण, निगृहीतेन किं मम? । इदानीमपि गच्छ त्वमुन्मत्तेन त्वयोदितम् ॥ ३२९ ॥ वराको मुच्यतामेष, मेषवद् यात्वसौ सुखम् । इत्यात्मरक्षकानुच्चैरादिदेश विशाम्पतिः ॥ ३३० ॥ विप्रोऽपि प्रत्युवाचैवं, स्मितविच्चरिताधरः । युक्तं प्राणिषु कारुण्यं, सर्वेष्वपि महात्मनाम् ॥३३१ ॥ किन्तु नाऽद्यापि करुणापात्रमस्मि महीपते! । न यावदनृतीस्यान्मे, प्रतिज्ञा सा तदोदिता ॥ ३३२ ॥ अनृतायां प्रतिज्ञायां, मद्वधस्य त्वमीशिषे । वधार्ह मां तदा मुञ्चन्, कृपावानुच्यसे नृप! ॥३३३ ॥ मुक्तोऽपि नाऽहं यास्यामि, स्थास्यामि घृतवत् पुनः । स्तोकमेवान्तरं विद्धि, प्रतिज्ञापूरणे मम ॥ ३३४ ॥ क्षणमात्रं प्रतीक्षस्वाऽत्रैव प्रेक्षस्व च क्षणात् । उदस्तोदन्वदुल्लोलान्, यमस्येवाऽग्रसैनिकान् ॥ ३३५ ॥ नैमित्तिकसदस्यान् स्वान्, कुरुष्व क्षणसाक्षिणः । भविष्यामः क्षणादूद्धर्वं, नाऽहं न त्वं न चापि ते ॥३३६॥ अभिधायेति तूष्णीकस्तस्थौ नैमित्तिकोऽथ सः । अव्यक्तः शुश्रुवे चोच्चैर्मृत्युगर्जिरिव ध्वनिः ॥३३७॥ आकस्मिकं महाध्वानं, तमातङ्कविधायिनम् । आकर्ण्य तस्थुरुत्कर्णाः, सर्वे वनमृगा इव ॥३३८ ॥ किञ्चिदुन्नमितग्रीवः, किञ्चिदुष्छस्य चाऽऽसनात् । किञ्चिद् वक्रोष्ठिकां कुर्वन्नित्यूचे स पुनर्द्विजः ॥ ३३९ ॥ ध्वनिराकर्ण्यतां राजन्!, रोदसी पूरयन्नयम् । भम्भाध्वनिस्तवेवाम्भोनिधेः प्रस्थानसूचकः ॥ ३४०॥
282828282828282828282828282
सगरप्रतिबोधाय सुबुद्धिमन्त्र्युक्तं तान्त्रिकोदाहरणम्।
॥ १९१ ॥
१ हास्यव्याप्ताधरः। २ महाकल्लोलान् । ३ पीडाकरम् । ४ मन्दहास्यम् ।