________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १९० ॥
REDERI
RX RX RX
द्रुमवद्दर्शयिष्यन्ति, खे पुष्पाण्यग्निमम्बुवत् । किं नु स्प्रक्ष्यन्ति वन्ध्या या, लप्स्यन्ते धेनुवत् सुतम् ? ॥३१४॥ विषाणिनं महिषवत्, किमानेष्यन्ति रासभम् ? । तरीवत् तारयिष्यन्ति, किं पाषाणान् जलाशये ? ॥ ३१५ ॥ अवेदनान् नारकांश्च, भाषमाणा इमे जडाः । किमन्यथा करिष्यन्ति, ग्रन्थान् सर्वज्ञभाषितान् ? ॥ ३१६ ॥ ॥ पञ्चभिः कुलकम् ॥ धृतस्त्वत्पुरुषैरत्राऽवस्थास्ये सप्त वासरान् । न खल्वेवमवष्टम्भं कुर्वन्त्यनृतभाषिणः ॥ ३१७ ॥ सत्यं न चेन्मम वचः, सप्तमेऽह्नि भवेन्नृप ! । निग्राहणीयः श्वपचैरहं तस्करवत् तदा ॥ ३१८ ॥ राजाऽपि स्वानुवाचैवं ब्राह्मणस्याऽस्य गीरियम् । अनिष्टा दुर्घटा वा संवादिन्यपि च यद्यपि ॥ ३१९ ॥ तथाऽपि सप्ताहोरात्रान्, मनः सन्देग्धि हन्त! नः । भविष्यति तदन्तेऽस्य, सत्या - ऽसत्यविवेचनम् ॥ ३२० ॥
॥ युग्मम् ॥
इत्युक्त्वा न्यासमिव तं नृपतिः स्वाङ्गरक्षिणाम् । द्विजं समर्पयामास, पर्षदं विससर्ज च ॥ ३२१ ॥ महत् कुतूहलमहो!, द्रष्टव्यं सप्तमे दिने । उन्मत्तभाषी विप्रोऽयं, तदहो ! निहनिष्यते ॥ ३२२ ॥ ही ! स्याद् युगान्तः को ह्येवमन्यथा मृत्यवे वदेत् ? । एवं तदानीमभवद्, विचित्रा नागरोक्तयः ॥ ३२३ ॥
॥ युग्मम् ॥
आश्चर्यं दर्शयिष्यामि, सम्प्राप्तेऽहनि सप्तमे । इत्युत्सुको द्विजः कष्टं, षड् दिनान्यत्यवाहयत् ॥ ३२४ ॥ राजाऽपि संशयच्छेदोत्कण्ठितो गणयन् मुहुः । कथञ्चिदतिचक्राम, षण्मासानिव षड् दिनान् ॥ ३२५ ॥
१ स्थिरताम् । १२ चाण्डालैः ।
CREDEREREREREREREDEREREDERYI
द्वितीयं पर्व
षष्ठः सर्गः अजित
सगर
चरितम् ।
सगरप्रतिबोधाय सुबुद्धिमन्त्रयुक्तं
तान्त्रिकोदा
हरणम् ।
॥ १९० ॥