________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः अजितसगरचरितम्।
॥१८९॥
YYYYYYYYYYYYYY
ततो युक्तमयुक्तं च, विदन्नपि महीपतिः । तस्य नैमित्तिकस्याऽभिमुखमैक्षिष्ट कौतुकात् ॥२९९ ॥ अथ नैमित्तिकः सोऽपि, सोपहासगिरा तया । नुन्नः प्रवयणेनेव, सावष्टम्भमदोऽवदत् ॥३००॥ राजन्! सभायां भवतः, किं नर्मसचिवा अमी? । वासन्तिकाः किमथवा?, किमथ ग्रामपण्डिताः? ॥३०१॥ सभ्याः सभाया भवतोऽप्येवंप्रायाः प्रभो! यदि । निराश्रया सती हन्त!, तदा दग्धा विदग्धता ॥३०२॥ तव विश्वविदग्धस्य, मुग्धैरेभिः समं कथम् । गोष्ठी हा! मृगराजस्य, मृगंधूतॆरिवोचिता? ॥३०३॥ समं कुलक्रमेणैव, समायाता अमी यदि । स्त्रीवत् पोषणमात्रं तदर्हन्त्यल्पधियोऽपि हि ॥३०४ ॥ न सभायामासयितुं, सभ्यत्वेनोचिता अमी । स्वर्ण-माणिक्यघटिते, किरीटे काचखण्डवत् ॥३०५ ॥ | रहस्यं न हि जानन्ति, शास्त्रवाचां मनागपि । गर्विताः पाठमात्रेण, किन्त्वमी शुकवत् सदा ॥३०६ ॥ वाच उत्फुल्लगल्लानां, पल्लवग्राहिणामिमाः । ये जानन्ति रहस्यार्थं, परिभाव्य वदन्ति ते ॥ ३०७ ॥ उष्ट्रपृष्ठसमारूढः, कुतुपः सार्थवाहिनः । देशाद् देशान्तरं याति, पन्थानं किमु वेत्ति सः? ॥ ३०८ ॥ तुम्बैः कक्षाविनिक्षिप्तैर्निम्नगायां सरस्यथ । तरत्यतारकोऽप्यम्भस्तरीतुं किं नु वेत्ति सः? ॥३०९॥ गुरुवागनुवादेन, शास्त्राण्येतेऽप्यधीयते । रहस्यभूतमर्थं तु, न जानन्ति मनागपि ॥ ३१०॥ अश्रद्धेयं मम ज्ञानममीषां यदि दुर्धियाम् । मज्ज्ञानप्रत्ययाघाटः, किं दूरे सप्तवासरी? ॥३११॥ जगदेकार्णवीकृत्य, पर्यस्तैर्निजवारिभिः । सत्यापयति मद्वाचं, भगवांश्चेन्महार्णवः ॥३१२ ॥ तदमी पारिषद्यास्ते, ज्योतिर्ग्रन्थार्थवेदिनः । उत्पतिष्णून पक्षिवत किं, दर्शयिष्यन्ति पर्वतान? ॥३१३ ॥
१ प्रतोदेन प्रेरितः । २ विदूषकाः। ३ शृगालैः। ४ पदलवग्राहिणाम् । ५ चर्मपात्रम् । ६ सीमा ।
282828282828282828282828282
सगरप्रतिबोधाय सुबुद्धिमन्त्र्युक्तं तान्त्रिकोदाहरणम्।
॥१८९॥