________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः अजितसगरचरितम्।
॥१८८॥
288888888888888888888888888
असावभिनवः कोऽपि, जज्ञे ज्योतिषिको यदि ।ज्योतिःशास्त्राण्यपि स्वामिन्!, जज्ञिरे नूतनानि किम्? ॥२८४॥ एष येषां प्रमाणेन, विश्वमेकार्णवं जगत् । करिष्यत्यर्णव इति, ब्रूते श्रवणदुःश्रवम् ॥२८५ ॥ बभूवुर्ग्रह-नक्षत्र-तारा अपि हि किं नवाः? । येषां वक्रातिचारादिप्रमाणादेष वक्त्यदः ॥२८६ ॥ सर्वज्ञशिष्यगणभृद्ग्रथितद्वादशाङ्गतः । ज्योतिःशास्त्राणि यानीह, नैवं तदनुमानतः ॥ २८७ ॥ अमी तच्छास्रसंवादभाजो येऽर्कादयो ग्रहाः । तेषामप्यनुमानेन, मन्महे नेदृशं वयम् ॥ २८८ ॥ जम्बूद्वीपपरिक्षेपी, यश्चाऽयं लवणार्णवः । सोऽपि त्वमिव मर्यादां, जातुचिन्न हिलते ॥ २८९ ॥ आकाशाद् भूमिमध्याद् वा, कश्चिदुत्पद्य नूतनः । करिष्यत्यर्णवो विश्वमिदमेकार्णवं यदि ॥२९०॥ अयं साहसिकः किं वा, पिशाचाधिष्ठितोऽथवा? । मत्तो वा यदि वोन्मत्तो, वातूलो वा निसर्गतः? ॥२९१॥ अकालं चाऽऽगमेऽधीती, किमपस्मारवानथ? । यदीदृशमसम्बद्धमभिधत्ते निरर्गलः ॥२९२ ॥॥युग्मम् ॥ स्थिरः सुमेरुवत् स्वामी, भूवत् सर्वंसहश्च यत् । दुष्टैः प्रकटमीदृक्षं, स्वच्छन्दैस्तदुदीर्यते ॥ २९३ ॥ सामान्यस्याऽपि पुरतो, नेदृशं वक्तुमीश्यते । कोप-प्रसादशक्तस्य, किं पुनः स्वामिनः पुरः? ॥२९४ ॥ वचसो दुर्वचस्याऽस्य, वक्ता धीरः किमेष वा? । धीरः किमथवा श्रोता, यः श्रुत्वाऽपि न कुप्यति? ॥२९५ ॥ ईदृक्षमपि चेत् स्वामी, श्रद्धत्ते श्रद्दधातु तत् । विना विप्रतिपत्तिं च, प्रत्येतव्यमदोऽपि हि ॥ २९६ ॥ पर्वता उत्पतन्त्युच्चैराकाशे कुसुमानि च । वैश्वानरः शीतरुचिर्वन्ध्यायाश्च स्तनन्धयः ॥ २९७॥ चक्रीवतो विषाणं च, दृषदस्तरणं जले। अवेदना नारकाश्च, नो चेदस्याऽपि वाक तथा ॥२९८॥॥युग्मम् ॥
१ कुशलः । २ अग्निः। ३ पुत्रः। ४ गर्दभस्य ।
8282828282828282828282828282
सगरप्रतिबोधाय सुबुद्धिमन्त्र्युक्तं तान्त्रिकोदाहरणम्।
॥१८८॥