________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व
षष्ठः
सर्गः
॥१८७॥
अजितसगरचरितम् ।
1282828282828282828282828286
भूभुजा स्वस्य कार्पण्यदोषारोपणभीरुणा । पुरुषैर्धार्यमाणोऽपि, निर्ययौ पुरुषोऽथ सः ॥ २६९ ॥ स्वामिनाऽर्थं दीयमानमसौ नाऽऽदत्त कोपतः । दातैवाऽसीति राज्ञो हीरपजहे स्वपूरुषैः ॥ २७० ॥ विप्रवेषमुपादाय, स एव पुरुषोऽन्यदा । उपायनकरस्तस्थौ, द्वारि तस्यैव भूपतेः ॥ २७१ ॥ तथैव राज्ञे विज्ञप्तः, स द्वाःस्थेन तथास्थितः । धर्मोऽसौ प्रतिहाराणां, द्वारागतनिवेदनम् ॥ २७२ ॥ आदेशाद् भूपतेस्तस्य, सभायां तत्र वेत्रभृत् । आयुक्तपुरुषैराशु, तं पुमांसमवीविशत् ॥ २७३ ॥ स स्थित्वा भूपतेरग्रे, समुन्नमितपाणिकः । आर्यवेदोदितान् मन्त्रानपठत् सपदक्रमम् ॥ २७४ ॥ मन्त्रपाठावसाने च, वेत्रिसन्दर्शितासने । निषसाद प्रसादादृशा राज्ञा निरीक्षितः ॥ २७५ ॥ कस्त्वं? किमागतोऽसीति, पृष्टश्च पृथिवीभुजा । कृताञ्जलिरुवाचैवमग्रणीः सोऽग्रजन्मनाम् ॥ २७६ ॥ ज्ञानानामिव मूर्तानां, सद्गुरूणामुपासनात् । अवाप्तसम्यगाम्नायो, राजन्! नैमित्तिकोऽस्म्यहम् ॥२७७॥ अष्टाधिकरणीग्रन्थान्, फलग्रन्थानथाऽखिलान् । जातकं गणितग्रन्थान्, जानामि निजनामवत् ॥२७८ ॥ सन्तं भूतं भविष्यन्तमर्थं सर्वं नरेश्वर! । तपःसिद्धो मुनिरिवाऽव्याहतं कथयाम्यहं ॥ २७९ ॥ अन्वयुक्त ततो राजा, यदस्मिन् समये द्विज!। यद् भावि तत् कथय भो!, ज्ञानस्य प्रत्ययः फलम् ॥२८०॥ द्विजोऽपि कथयामास, वासरे सप्तमेऽर्णवः । जगदेकार्णवीकृत्य, प्रलयं प्रापपिष्यति ॥ २८१ ॥ तद्वाचा विस्मय-क्षोभौ, बिभ्राणो युगपन्नृपः । नैमित्तिकानामन्येषामीक्षाञ्चक्रे मुखान्यथ ॥ २८२॥ राज्ञा भ्रूसंज्ञया पृष्टा, रुष्टा दुर्घटया तया । द्विजवाचा सोपहासमूचुनैमित्तिकास्तु ते ॥ २८३ ॥
१ ऊर्ध्वबाहुः । २ ब्राह्मणानाम् । ३ अस्खलितम् ।
1282828282828282828282828286
सगरप्रतिबोधाय सुबुद्धिमन्त्र्युक्तं तान्त्रिकोदाहरणम्।
॥१८७॥