________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १९८ ॥
FREDEREREDERERERERERERERERY
अथ सा विललापैवं, बलिना च्छलिना द्विषा । हा! हतो मत्पतिरसौ, हा! हताऽस्मि तपस्विनी ॥ ४३१ ॥ एतत् तदेव वदनं, मत्पतेः पद्मसोदरम् । यन्मया परया प्रीत्या, कुण्डलाभ्यामभूष्यत ॥ ४३२ ॥ तदेतत् तस्य हृदयं, विपुलं हन्त ! मत्पतेः । अन्तर्बहिश्च यद् वासस्थानमेकं ममैव हि ॥ ४३३ ॥ हा! नाथाऽहमनाथाऽस्मि, त्वां विना नन्दनाद् वनात् । पुष्पाण्यानीय को नाम, समोत्तंसीकरिष्यति ? ॥ ४३४ ॥ एकासनसमासीना, विचरन्ती नभोऽङ्गणे । यथासुखं केन समं, वादयिष्यामि वल्लकीम् ? ॥ ४३५ ॥ वल्लीकीमिव को वा मामुत्सङ्गे धारयिष्यति ? । शय्याविशंस्थूलान् को वा, स्थापयिष्यति मेऽलकान् ? ॥ ४३६ ॥ कोपिष्यामि मुहुः कस्मै, प्रौढप्रणयलीलया ? । मत्पादघातोऽस्तु मुदे, कस्या शोकतरोरिव ? || ४३७ ॥ हा प्रिय ! स्तबकी भूतकौमुदीभिरिवाऽद्य मे । गोशीर्षचन्दनरसैः कोऽङ्गरागं करिष्यति ? ॥ ४३८ ॥ कपोलपाल्योग्रीवायां, ललाटे कुचकुम्भयोः । कोऽद्य मे पत्ररचनां, सैरन्ध्रीव विधास्यति ? ॥ ४३९ ॥ अप्यलीकव्यलीकेन, मानमौनधरां च माम् । आलापयिष्यत्यथ कः, क्रीडाराजशुकीमिव ? ॥ ४४० ॥ प्रिये! प्रिये! देवि! देवीत्यादिचाटुगिरा मुहुः । को वा कृतकसुप्तां मां, स्वयमुद्बोधयिष्यति ? ॥ ४४१ ॥ विलम्बेनाऽद्य पर्याप्तममुनाऽऽत्मविडम्बिना । महापथमहापान्थं, नाथ! त्वामनुयाम्यहम् ॥ ४४२ ॥ प्राणनाथपथे गन्तुकामा कामं कृताञ्जलिः । सा पावकं यानमिव, ययाचे वसुधाधवात् ॥ ४४३ ॥ तामभाषिष्ट भूपोऽपि वत्से ! स्वच्छाशये ! त्वया । पत्युः सम्यगविज्ञाय, कथां किमिदमुच्यते? ॥ ४४४ ॥ रक्षो विद्याधरादीनां, मायाऽपि भवतीदृशी । तन्मुहूर्त्तं प्रतीक्षस्व, स्वाधीनं ह्यात्मसाधनम् ॥ ४४५ ॥
१ वीणाम् । २ शय्यायां विप्रकीर्णान् । ३ निपुणा दासीव ४ अलीकसुप्ताम् । ५ मृत्युमार्गपथिकम् ।
CREDEREREREREREREREREREDERE
द्वितीयं पर्व
षष्ठः सर्गः
अजित
सगर
चरितम् ।
सगरप्रतिबो
धाय द्वितीय
मन्त्र्युक्तमपरमिन्द्रजालिकोदाहरणम् ।
॥ १९८ ॥