________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १८३ ॥
'REDEREREREREREREDERERE DE REI
I
यथा नैसर्गिकं धैर्यं, महत् तस्य महीपतेः । मोहोऽप्यागन्तुको जज्ञे, पुत्रक्षयभवस्तथा ॥ २१३ ॥ | एककोश इव खड्गावेकस्तम्भ इव द्विपौ । प्रबोध - मोहौ युगपत्, तदा राज्ञि बभूवतुः ॥ २१४ ॥ अथ बोधयितुं भूपं, सुबुद्धिर्नाम बुद्धिमान् । वाचा पीयूषसध्रीच्येत्युवाच सचिवाग्रणीः ॥ २१५ ॥ अम्भोधयोऽपि मर्यादां, लङ्घयेयुः कदाचन । आसादयेयुः कम्पं च, कदाचन कुलाचलाः ॥ २१६ ॥ अवाप्नुयात् तरलतां, कदाचिदपि मेदिनी । अपि जर्जरतां वज्रमश्नुवीत कदाचन ॥ २१७ ॥ त्वादृशास्तु महात्मानो, व्यसनेषु महत्स्वपि । उपस्थितेषु वैधुर्यं, न भजन्ते मनागपि ॥ २९८ ॥
॥ त्रिभिर्विशेषकम् ॥
क्षणाद् दृष्टं क्षणान्नष्टं, कुटुम्बाद्यखिलं भवे । विवेकिन इति ज्ञात्वा, न मुह्यन्ति यथा शृणु ॥ २१९ ॥ जम्बूद्वीप इह द्वीपे, क्षेत्रे भरतनामनि । कस्मिंश्चिन्नगरे कोऽपि, पुराऽभूत् पृथिवीपतिः ॥ २२० ॥ जिनधर्मसरोहंसः, सदाचारपथाध्वगः । प्रजामयूरीजलदो, मर्यादापालनाम्बुधिः ॥ २२१ ॥ सर्वव्यसनकक्षाग्निर्दयावल्ल्येकपादपः । कीर्तिकल्लोलिनीशैलः, शीलरनैकरोहणः ॥ २२२ ॥ स एकस्मिन् दिने स्वस्यामास्थान्यां सुखमास्थितः । यथाक्षणं विज्ञपयाम्बभूवे वेत्रपाणिना ॥ २२३ ॥ पुष्पदामकरो द्वारि, कलाविदिव कोऽपि ना ॥ विज्ञीप्सुं किञ्चिदद्यैव, देवपादान् दिदृक्षते ॥ २२४ ॥ पण्डितः किं कविः किं वा, गन्धर्वः किं नटोऽथ किम् । छान्दसो वा नीतिविद् वाऽस्त्रविद्वाऽथेन्द्रजालिकः ॥२२५॥ इति न ज्ञायते ज्ञातं, त्वाकृत्या गुणवानिति । यत्राऽऽकृतिस्तत्र गुणा, इत्यर्भा अप्यधीयते ॥ २२६ ॥
१ अमृतसमानया । २ सर्वव्यसनतृणवह्निः । ३ सभायाम् ।
REDERERERERERERERERERERERER
द्वितीयं पर्व
षष्ठः
सर्गः
अजित
सगर
चरितम् ।
सगरप्रति
बोधाय सुबुद्धिमन्युक्तं
तान्त्रिकोदाहरणम् ।
॥ १८३ ॥