________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व
षष्ठः
सर्गः
॥१८२॥
अजितसगरचरितम् ।
282828282828282828282828286
निष्पन्नं च व्रीहिवणं, दग्धं च दववह्निना । धर्मा-ऽर्थ-कामयोग्याश्च, जाता यूयं हताश्च हा !॥१९९ ॥
॥त्रिभिर्विशेषकम्॥ प्राप्याऽपि मद्गृहं वत्सा!, अकृतार्था गता हहा! । आढ्यस्य कृपणस्येव, वेश्मोपेत्य वनीपकाः ॥ २०० ॥ तदद्य किंमे चक्राद्यै, रत्ननिधिभिरप्यलम् । युष्मान् विना विरहिणो, ज्योत्स्नोद्यानादिकैरिव ॥२०१॥ षट्खण्डभरतक्षेत्रराज्येन यदि वाऽसुभिः । असुभ्योऽपि प्रियैः पुत्रैर्विनाभूतस्य किं मम? ॥ २०२ ॥ एवं विलापिनमथो, भूनाथं श्रावकद्विजः । स बोधयितुमित्यूचे, सुधामधुरया गिरा ॥२०३ ॥ धात्र्याः परित्राणमिव, प्रबोधोऽपि तवाऽन्वये । मुख्याधिकारसम्प्राप्तो, मुधाऽन्यैर्देव! बोध्यसे । २०४॥ जगन्मोहार्यमा यस्य, साक्षाद् भ्राताऽजितप्रभुः । अन्येन बोध्यमानस्य, तस्य लज्जा न किं तव? ॥२०५॥ असावसारः संसारो, ज्ञाप्यतेऽन्यस्य ते पुनः । जन्म प्रभृति सर्वज्ञसेवकस्य किमुच्यते? ॥ २०६ ॥ पितरो मातरो जायास्तनयाः सुहृदोऽपि च । स्वप्नदृष्टोपमं राजन्!, संसारे सर्वमप्यदः ॥ २०७॥ यत् प्रातस्तन्न मध्याह्ने, यन्मध्याह्ने न तन्निशि । निरीक्ष्यते भवेऽस्मिन् ही!, पदार्थानामनित्यता ॥ २०८ ॥ तत्त्ववित् स्वयमेवाऽसि, स्वं धैर्ये स्थापय स्वयम् । रविणा द्योत्यते विश्वं, नाऽपरो द्योतको रवेः ॥२०९॥ लवणोद इवाऽम्भोधिर्मणिभिर्लवणेन च । पक्षमध्यतमिस्रवाऽऽलोकेन तिमिरेण च ॥२१० ॥ राकानिशाकर इव, ज्योत्स्नया लाञ्छनेन च । हिमाद्रिरिव दिव्याभिरोषधीभिर्हिमेन च ॥२११॥ तद् विप्रवचनं शृण्वन्, पुत्रान्तं च मुहुः स्मरन् । बोधेन च विमोहेन, चानशे पृथिवीपतिः ॥२१२॥
॥त्रिभिर्विशेषकम् ॥ १ याचकाः। २ प्राणैः। ३ जगतां मोहनाशने सूर्यसमः । ४ पूर्णिमाचन्द्रः ।
28282828282828282828282828
अपरिचितेन द्विजेन सगरस्याश्वासनम्।
॥१८२ ॥