________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः
॥१८१॥
अजितसगरचरितम्।
282828282828282828282828282
&|| कथं न कोऽपि ब्रूते वः?, सत्युमुक्तं द्विजन्मना । दस्युनेव च्छलज्ञेन, दैवेन मुषितोऽस्मि ही ॥ १८५॥
अरे रे दैव! कुत्राऽसि?, कुत्राऽसि ज्वलनप्रभ? । अक्षत्रमिदमाचर्य, क्वाऽयासी गपांशन!? ॥१८६ ॥ सेनापते! क्व तेऽगच्छद्दण्डदोर्दण्डचण्डिमा? । क्षेमङ्करत्वमगमत्, व पुरोहितरत्न! ते? ॥१८७॥ गलितं वर्धके! किंते, दुर्गनिर्माणकौशलम्? । गृहिन्! सञ्जीवनौषध्यः, किं ते कुत्राऽपि विस्मृताः?॥१८८॥ | गजरत्न! किमाप्तस्त्वं, तदा गजनिमीलिकाम्? । अश्वरत्न! समुत्पन्नं, शूलं किं भवतस्तदा? ॥१८९॥ |चक्र-दण्डा-ऽसयो! यूयं,किंतदानी तिरोहिताः? अभूतां मणि-काकिण्यौ!,निष्प्रभौ किं दिनेन्दुवत्?॥१९०॥
आतोद्यपुटवद् भिन्ने, किं युवां छत्र-चर्मणी? । नवाऽपि निधयो! यूयं, ग्रस्ताः किमनया भुवा? ॥१९१ ॥ | युष्मद्विश्वासतोऽशङ्ख, रममाणाः कुमारकाः । सर्वैरपि न यत् त्रातास्तस्मात् पन्नगपांसनात् ॥१९२॥ करोम्येवं विनष्टे किमिदानीं ज्वलनप्रभम् । सगोत्रमपि चेद्धन्मि, न हि जीवन्ति मे सुताः ॥१९३ ॥ ऋषभस्वामिनो वंशे, नैवं कोऽप्यासदन्मृतिम् । त्रपाकरमिमं मृत्यु, हा वत्साः! कथमाप्नुत? ॥१९४ ॥ पूर्वे मदीयाः सर्वेऽपि, पुरुषायुषजीविनः । दीक्षामाददिरे स्वर्गमपवर्गं च लेभिरे ॥ १९५ ॥ |स्वेच्छाविहारश्रद्धाऽपि, भवतां न ह्यपूर्यत । अरण्यानीसमुत्पन्नभूरुहामिव दोहदः ॥१९६ ॥
उदियाय च पूर्णेन्दुर्दैवाद् ग्रस्तश्च राहुणा । फलेग्रहिश्च सञ्जज्ञे, तरुर्भग्नश्च कुम्भिना ॥१९७॥ | आगता च तरी तीरं, भग्ना च तटभूभृता । उन्नतश्च नवाम्भोदो, विकीर्णश्च नभस्वता ॥ १९८ ॥
282828282828282828282828282
सगरस्य विलापः।
॥१८१॥
१ चौरेणेव । २ खेदे। ३ नागाधम । ४ गजवद् नेत्रनिमीलिकाम् । ५ महदरण्यमरण्यानी। ६ फलवान्। ७ गजेन। ८ नौः ।