________________
त्रिषष्टि
द्वितीयं पर्व
शलाकापुरुषचरिते
सर्गः
॥१८०॥
अजितसगरचरितम्।
82828282828282828282828288
ताडितः कुलिशेनेव, तेनोदन्तेन भूपतिः । पपात मूच्छितः पृथ्व्यां, पृथिवीमपि कम्पयन् ॥१७१ ॥ मातरश्च कुमाराणां, निपेतुर्मूर्च्छया क्षितौ । पितुर्मातश्च तुल्यं हि, दःखं सतवियोगजम् ॥१७२॥ राजवेश्मनि लोकानामाक्रन्दोऽथ महानभूत् । समुद्रतटगर्तान्तर्गतानां यादसामिव ॥१७३ ॥ मन्त्र्यादयोऽपि ते स्वामिपुत्रव्योपत्तिसाक्षिणम् । आत्मानमतिनिन्दन्तो, रुरुदुः करुणस्वरम् ॥१७४ ॥ तादृशी स्वामिनोऽवस्थां, तां वीक्षितुमिवाऽक्षमाः । अञ्जलिच्छन्नवदनाः, पूच्चक्रुर्वेत्रपाणयः ॥१७५ ॥ प्राणप्रियाण्यप्यस्त्राणि, त्यजन्तश्चाऽऽत्मरक्षकाः । प्रलपन्तोऽलुठन् भूमौ, वातभग्ना इव द्रुमाः ॥१७६ ॥ स्वकञ्चुकान् कञ्चकिनः, स्फाटयन्तोऽरटन् भृशम् । दवानलान्तः पतिता, इव तित्तिरपक्षिणः ॥१७७॥ हृदयं कुट्टयन्तः स्वं, चिरात् प्राप्तमिव द्विषम् । चेट्यश्चेटाश्च चक्रन्दुर्हताः स्म इति भाषिणः ॥१७८ ॥ तालवृन्तानिलेनाऽम्बुसेकेन च महीपतिः । राज्यश्च संज्ञामासेदुर्दुःखशल्यप्रतोदनीम् ॥१७९ ॥ मलिनीभूतवासस्का, नेत्रास्रजलकज्जलैः । छाद्यमानकपोला-ऽक्ष्यो, लुलितालकवल्लिभिः ॥१८०॥ उरःस्थलकराघातप्रत्रुटद्धारयष्टयः । निर्भरं भूमिलुठनस्फुटत्कङ्कणमौक्तिकाः ॥१८१॥ धूमं शोकानलस्येवोज्झन्त्यो निःश्वासमुच्चकैः । शुष्यत्कण्ठा-ऽधरदला, राजपत्न्योऽरुदन्नथ ॥१८२ ॥
॥त्रिभिर्विशेषकम् ॥ धैर्य लज्जां विवेकं च, विहायैकपदेऽपि हि । राजीवच्छोकविधुरो, विललापेति भूपतिः ॥१८३ ॥ हे कुमाराः! क्व यूयं स्थ?, निवर्तध्वं विहारतः । राज्यायाऽवसरो वोऽद्य, व्रताय सगरस्य तु ॥ १८४॥
82828282828282828282828282
सगरस्य विलापः।
॥१८०॥
१वत्तान्तेन। २ मरणम ।