________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः अजितसगरचरितम् ।
॥१७९॥
28282828282828282828282828
|| अत्यन्तशून्यमनसः, पिशाच-किन्नरा इव । उदश्रुलोचना दीना, मुषिताः कृपणा इव ॥ १५८ ॥
प्रस्खलच्चरणन्यासा, दष्टा इव भुजङ्गमैः । आस्थानं युगपद् राज्ञोऽविशन् सङ्केतिता इव ॥१५९ ॥ राजानं ते नमस्कृत्य, यथास्थानमुपाविशन् । विविक्षव इव क्षोणी, ते च तस्थुरधोमुखाः ॥ १६० ॥ तां विप्रवाचमाकर्ण्य, दृष्ट्वा तांश्च तथाविधान् । कुमारवर्जमायाताननिषादिद्विपानिव ॥ १६९ ॥ लिखितो नूल्लिखितो नु, सुप्तो नूत्तम्भितो नु वा । शून्यो निष्पन्दनयनो, द्रागभूदवनीपतिः ॥ १६२ ॥
॥युग्मम्॥ आप्तमूर्च्छमधैर्येण, धैर्येण च तथास्थितम् । पुनर्बोधयितुं विप्रः, प्रोवाच पृथिवीपतिम् ॥ १६३ ॥ त्वमसि मापते! विश्वमोहनिद्राविवस्वतः । ऋषभस्वामिनो वंश्यो, भ्राता चास्यजितप्रभोः ॥ १६४॥ इत्थं पृथग्जन इव, भवन् मोहवशंवदः । तयोः कलङ्कमाधत्सेऽधुना किं धरणीधव? ॥ १६५ ॥ राजाऽपि दध्यौ विप्रोऽयं, स्वपुत्रान्तापदेशतः । मत्पुत्रक्षयनाट्यस्य, जगौ प्रस्तावनामिमाम् ॥१६६ ॥ व्यक्तं च शंसत्यधुना, कुमाराणामसौ क्षयम् । कुमारवर्जं चाऽऽयाताः, प्रधानपुरुषा अमी ॥१६७॥ कुतः सम्भाव्यते तेषां, क्षयश्च मनसाऽपि हि । भुवि सञ्चरतां स्वैरं, वने केसरिणामिव? ॥१६८ ॥ महारत्नपरीवारा, दुर्वाराः स्वौजसाऽपि हि । केन शक्या निहन्तुं ते, हन्तास्खलितशक्तयः? ॥१६९॥ चिन्तयित्वेति किमिदमिति पृष्टाः क्षमाभुजा । ज्वलनप्रभवृत्तान्तं, शशंसुः सचिवादयः ॥ १७० ॥ १ सभाम् । २ प्रवेष्टुमिच्छवः। ३ हस्तिपकरहितगजानिव । ४ स्वस्थम् । ५ साधारणजनः। ६ ऋषभाजितस्वामिनोः। ७ स्वपुत्रमरणमिषात् ।
028888888888888888888888888
अपरिचितेन
द्विजेन स्वपुत्रमरणमिषेण सगरस्य प्रतिबोधनम्।
॥ १७९॥