________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः
॥१७८ ॥
अजितसगरचरितम्।
1828RXR8R828282828282828282
केपि केऽपि कुतोऽप्येत्य, मिलन्त्येकत्र वेश्मनि । यतः शरीरिणः सर्वे, ग्रामकुट्यामिवाऽध्वगाः ॥१४३ ॥ पृथक् पृथक् पथेनैव, स्वकर्मपरिणामतः । तेषु गच्छत्सु को नाम, सुधीः शोचेन्मनागपि? ॥१४४ ॥ मा स्म शोकं कृथास्तेन, मोहचिह्न द्विजोत्तम! धेहि धैर्यं महासत्त्व!, विवेके स्वं निधेहि च ॥१४५॥ अथावोचद्विजन्माऽपि,राजन्! जानामि जन्मिनाम् । भवस्वरूपं किन्त्वद्य, व्यस्मार्षं पुत्रशोकतः॥१४६॥ तावत् सर्वोऽपि जानाति, तावत् सर्वोऽपि धैर्यभाक् । यावदिष्टवियोगं नाऽनुभवत्यात्मना भवी ॥१४७॥ सदाऽर्हदादेशसुधापाननिधीतचेतसः । विरलास्त्वादृशाः स्वामिन्!, धैर्यवन्तो विवेकिनः ॥१४८ ॥ विवेकिन्! भवता मुह्यन्, बोधितः साधु साध्वहम् । उपस्कार्यो विवेकोऽयमात्मनोऽपि कृते त्वया ॥१४९ ॥ नश्यन्नयं रक्षणीयो, व्यसने समुपस्थिते । यतो विधुरवेलायै, ध्रियते ध्रुवमायुधम् ॥ १५० ॥ अयं च कालो रङ्केच, समश्चक्रधरेऽपि च । प्राणान् पुत्रादि वाऽऽच्छिन्दन्, बिभेति न कुतोऽपि हि॥१५१॥ हन्त! पुत्रादि यस्याल्पमल्पं तस्य विपद्यते । भूयिष्ठं यस्य तत् तस्य, भूयिष्ठं हि विपद्यते ॥१५२ ॥ द्वयोरपि तयोः पीडा, तुल्यैव हि भवत्यहो! । अल्पा-ऽनल्पप्रहाराभ्यां, कुन्थु-कुञ्जरयोरिव ॥१५३ ॥ नाशेनैकस्य पुत्रस्य, न शोचिष्याम्यतः परम् । मद्वत् त्वमपि मा शोचीः, सर्वपुत्रक्षयेऽपि हि ॥१५४॥ षष्टिसहस्रसङ्ख्यास्ते, दोविक्रमविराजिनः । राजन्! विपन्नास्तनया, युगपत् कालयोगतः ॥ १५५ ॥ अत्रान्तरे च सामन्ता-ऽमात्य-सेनाधिपादयः । अपरेऽपि कुमाराणां, जना आसन्नवर्तिनः ॥१५६ ॥ उत्तरीयच्छन्नमुखाः, शालीना इव लज्जया । विवर्णदेहाः खेदेन, दवदग्धा इव द्रुमाः ॥१५७॥
१ धर्मशालायाम् । २ विवेकः। ३ दुःखवेलायै ।
282828282828282828282828284
अपरिचेतिन
द्विजेन स्वपुत्रमरणमिषेण सगरस्य प्रतिबोधनम्।
॥१७८॥