________________
त्रिषष्टिशलाका
पुरुषचरिते
।। १७७ ।।
¡CREDERER
REDERERERE
तस्य चाऽतिबलो नाम, सूनुः समुदपद्यत । आखण्डल इवाऽखण्डशासनोऽवनिशासनः ॥ १२८ ॥ बभूव तस्य तनयो, बलभद्रोऽभिधानतः । जगंन्भद्रङ्करः स्थाम्ना, धाम्ना दीधितिमानिव ॥ १२९ ॥ बलवीर्यो महावीर्यः, शौर्य - धैर्यभृदग्रणीः । ग्रामणीर्नरनाथानामभवत् तस्य चाऽऽत्मजः ॥ १३० ॥ शोभितः कीर्ति-वीर्याभ्यां कीर्तिवीर्यश्च विश्रुतः । उदभूदङ्गभूस्तस्माद्, दीपो दीपादिवोज्ज्वलः ॥१३१॥ दन्तिभिर्गन्धदन्तीव, वज्रदण्ड इवाऽऽयुधैः । परैरवार्यवीर्योऽभूज्जलवीर्यश्च तत्सुतः ॥ १३२ ॥ अखण्डदण्डशक्तिश्च, दण्डपाणिरिवापरः । अभूदुद्दण्डदोर्दण्डो, दण्डवीर्यस्तदात्मजः ॥ १३३ ॥ अपाच्य भरतार्धस्य, शासितारो महौजसः । इन्द्रोपनीतभगवन्महामुकुटधारिणः ॥ १३४ ॥
सुरा - ऽसुरैरप्यजय्यास्तेऽपि लोकोत्तरौजसः । सर्वेऽपि कालधर्मेण, कालधर्ममुपाययुः ॥ १३५ ॥ ॥ युग्मम् ॥ ततः प्रभृति चाऽन्येऽपि सङ्ख्यातीता महीभुजः । महाभुजा व्यपद्यन्त, कालो हि दुरतिक्रमः ॥ १३६ ॥ सर्वङ्कष : पिशुनवत्, सर्वभक्षी हुताशवत् । सर्वभेदी सलिलवत्, कृतान्तस्तदहो द्विज ! ॥ १३७ ॥ मदीयेऽपि गृहे कालान्नाऽवशिष्टोऽस्ति पूर्वजः । का वार्ताऽन्यगृहेष्वस्ति ?, तन्मङ्गलगृहं कुतः? ॥ १३८ ॥ त्वत्पुत्रश्चेन्प्रियेतैकस्तदेवमुचितं तव । सर्वसाधारणे मृत्यौ, किं नाम द्विज! शोचसि ? ॥ १३९ ॥ अर्भके स्थविरे वाऽथ, दरिद्रे चक्रवर्तिनि । समं वर्तत इत्येष, कृतान्त: समवर्त्यहो ! ॥ १४० ॥ संसारस्य स्वभावोऽयं, न स्थिरः कश्चिदत्र यत् । तरङ्गवत् तरङ्गिण्यां, शरदभ्रवदम्बरे ॥ १४१ ॥ किञ्चाऽसौ मे पिता माता, भ्राता पुत्रः स्वसा स्नुषा । इत्यादिरपि सम्बन्धो न भवे पारमार्थिकः ॥ १४२ ॥ १ जगन्माङ्गल्यकारकः । २ सूर्य इव । ३ अलौकिकपराक्रमवन्तः । ४ मृत्युम् । ५ नद्याम् ।
KAKAKAKAEDERERERERERERERERE
द्वितीयं पर्व
षष्ठः सर्गः
अजित
सगर
चरितम् ।
अपरिचितेन द्विजेन स्वपुत्रमरणमिषेण सगरस्य प्रतिबोधनम् ।
॥। १७७ ॥